SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्क: १-८२ सर्वेषां निशीथव्याप्तिनिर्णायकवचनानां वैयर्थ्यापातात् । प्रदोपवाक्यस्य चोदाहृतरीत्येोपपत्तेश्च । अस्मिन् व्रते सर्वेषा - मधिकारः । "शिवरात्रि व्रतं नाम सर्वपापप्रणाशनम् । चाण्डालमनुष्याणां भुक्तिमुक्तिप्रदायकम् ॥” इति हेमाद्रिधृतेशान संहितेाक्त: । इदं व्रतं नित्यमित्युक्तं स्कान्दे"परात्परतरं नास्ति शिवरात्रिः परात्परम् । न पूजयति भक्तयेशं रुद्रं त्रिभुवनेश्वरम् ॥ जन्तुर्जन्मसहस्रेषु भ्रमते नात्र संशयः ।" इत्यनिष्टश्रुतेः । " मम भक्तस्तु यो देवि ! शिवरात्रिमुपोषकः । शिवञ्च पूजयित्वा यो जागर्ति च चतुर्दशी || मातुः पयोधररसं न पिवेत् स कदाचन । गणत्वमक्षयं दिव्यमक्षय्यं शिवशासनम् ॥ सर्वान् भुक्त्वा महाभोगान् मृतो भूये। न जायते ।” इति तत्रैव फलश्रवणात् काम्यश्च । - अत्र नित्यत्रते पूजैव प्रधानम्, पूर्वोक्तानिष्टवाक्ययेाः पूजामात्रग्रहणात् । काम्यव्रतविधायकवाक्येषु त्रितयग्रहणात् काम्यव्रते उपवासजागरणपूजाः प्रधानम् । प्रतिवर्षे काम्यस्यास्यावधिरुक्तो माधवीये ईशानसंहितायाम् - Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy