SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्क: " त्रयोदश्यस्तगे सूर्ये चतसृष्वेव नाडिषु । भूतविद्धा तु या तत्र शिवरात्रिव्रतं चरेत् ॥” इति । १-८१ पूर्वेद्युरेव प्रदोषनिशीथोभयव्याप्तौ पूर्वा, " त्रयोदशी यदा देवि ! दिनभुक्तिप्रमाणतः । जागरे शिवरात्रिः स्यान्निशि पूर्णा चतुर्दशी ||" इति । हेमाद्रिधृतस्कान्दात् । दिनभुक्तिरस्तमयः । परेद्यरेवोभयव्याप्तौ परैव, “निशाद्वये चतुर्दश्यां पूर्वा त्याज्या परा शुभा ।" इति कामिकात् । यदा पूर्वेद्युर्निशीथव्याप्तिः परेद्युः प्रदोषव्यातिस्तदा पूर्वैव, " पूर्वविद्धा तु कर्त्तव्या शिवरात्रिर्वलेर्दिनम् । माघ फाल्गुनयेोर्मध्ये असिता या चतुर्दशी || अनङ्गेन समायुक्ता कर्त्तव्या सा सदा तिथिः । अर्द्धरात्रात्पुरस्ताच्चेज्जयायोगो यदा भवेत् ॥ पूर्वविद्धैव कर्त्तव्या शिवरात्रिः शिवप्रियैः ।" इति माधवपरित स्कान्दनागरखण्डपुराणेभ्यः । हेमाद्रिमदन तु 'अर्द्धरात्राद्' इत्यस्मादेव वचनादिनद्वये निशीथव्याप्तौ पूर्वेत्याहतुः । असावेव निर्णयो मासशिवरात्रावपि ज्ञेयः । यत्तु निर्णयामृतकारः प्रदेोषव्यापिनी ग्राह्येत्येतद्वाक्यं प्रमाणीकृत्य सर्वापि शिवरात्रिः प्रदोषव्यापिन्येव ग्राह्येत्याह तदसमञ्जसम् Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy