________________
१६०
तिथ्यर्कः इयं निशीथव्यापिनी ग्राहया । तदुक्तमीशानसंहितायाम्
"माघकृष्णचतुर्दश्यामादिदेवो महानिशि । शिवलिङ्गमभूत्तत्र कोटिसूर्यसमप्रभम् ।। तत्कालव्यापिनी ग्राहया शिवरात्रिवते तिथिः । व्याप्यार्द्धरात्रं यस्यां तु लभ्यते या चतुर्दशी ॥ तस्यामेव व्रतं कार्य मत्प्रसादार्थि भिजनैः । पूर्वेधुर्वा परेधुवा महानिशि चतुर्दशी ॥
व्याप्ता सा दृश्यते यस्यां तस्यां कुर्याद् व्रतं नरः।" इति । अत्र महानिशाशब्देन मध्यमयामयोर्मध्यमुच्यते,
"महानिशा तु विज्ञेया मध्यं मध्यमयामयोः ।" इति वाक्यात् । नारदसंहितायामपि
"अद्धरात्रयुता यत्र माघकृष्णा चतुर्दशी ।
शिवरात्रि व्रतं तत्र सेोऽश्वमेधफलं लभेत् ॥” इति । दिनद्वये निशीथव्यापिन्यव्यापिनी चेदुत्तरैव । तदुक्तं माधवीये कामिकस्मृत्यन्तरयोः
"आदित्यास्तमये काले अस्ति चेद्या चतुर्दशी । शिवरात्रिवतं तत्र सोऽश्वमेधफलं लभेत् ॥ प्रदोषव्यापिनी ग्राहया शिवरात्रिचतुर्दशी ।
रात्री जागरणं यस्मात्तस्मात्तां समुपोषयेत् ॥” इति । अत्र प्रदोषवेधस्तत्रैव वायुपुराणे
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com