SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ १६० तिथ्यर्कः इयं निशीथव्यापिनी ग्राहया । तदुक्तमीशानसंहितायाम् "माघकृष्णचतुर्दश्यामादिदेवो महानिशि । शिवलिङ्गमभूत्तत्र कोटिसूर्यसमप्रभम् ।। तत्कालव्यापिनी ग्राहया शिवरात्रिवते तिथिः । व्याप्यार्द्धरात्रं यस्यां तु लभ्यते या चतुर्दशी ॥ तस्यामेव व्रतं कार्य मत्प्रसादार्थि भिजनैः । पूर्वेधुर्वा परेधुवा महानिशि चतुर्दशी ॥ व्याप्ता सा दृश्यते यस्यां तस्यां कुर्याद् व्रतं नरः।" इति । अत्र महानिशाशब्देन मध्यमयामयोर्मध्यमुच्यते, "महानिशा तु विज्ञेया मध्यं मध्यमयामयोः ।" इति वाक्यात् । नारदसंहितायामपि "अद्धरात्रयुता यत्र माघकृष्णा चतुर्दशी । शिवरात्रि व्रतं तत्र सेोऽश्वमेधफलं लभेत् ॥” इति । दिनद्वये निशीथव्यापिन्यव्यापिनी चेदुत्तरैव । तदुक्तं माधवीये कामिकस्मृत्यन्तरयोः "आदित्यास्तमये काले अस्ति चेद्या चतुर्दशी । शिवरात्रिवतं तत्र सोऽश्वमेधफलं लभेत् ॥ प्रदोषव्यापिनी ग्राहया शिवरात्रिचतुर्दशी । रात्री जागरणं यस्मात्तस्मात्तां समुपोषयेत् ॥” इति । अत्र प्रदोषवेधस्तत्रैव वायुपुराणे Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy