SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्क: नमः प्रणवसंयुक्तान् सतिलांश्च जलाञ्जलीन् । यमाय सप्त पित्रे च धर्मराजाय सप्त च ॥ मृत्यवे सप्त देयाश्च तथा सप्ताऽन्तकाय च । वैवस्वताय सप्तान्यान् सप्त कालाय वै बहिः ॥ सप्तदेयाश्च विधिवत् सर्वप्राणहराय च ||" इति । एवमेकेानपञ्चाशद जलयो भवन्ति । तथा “कसरं भेोजनीयाश्च ब्राह्मणास्तदनन्तरम् । श्राद्धं दत्वा पितृभ्यश्व विमुक्तः सर्वपातकैः || ततो वितत्य बन्धुभ्यः कृसरं भक्षयेत् स्वयम् |" इति अथ फाल्गुनकृष्ण चतुर्दशी शिवरात्रिः । शिवरात्रिविनिर्णयो मया सुधियां प्रीतिविवर्द्धनाचितः । क्रियते गुरुदिष्टवर्त्मना मतमास्थाय गुरोर्गरीयसः ॥ तत्र शिवरात्रिशब्दो निर्मथ्यन्यायेन योगरूढः । तत्पुरुषसमासेन योगेन प्रवर्तमानः शब्दो रूड्या माघकृष्णचतुर्दशीरूपे कालविशेषे नियम्यते । तत्स्वरूपं स्कान्दे "माघस्य कृष्णपक्ष या तिथिश्चैव चतुर्दशी । शिवरात्रिः समाख्याता सर्वपापनिषूदनी ॥” इति । कामिकेsपि - "माघमासे सिते पक्षे विद्यते या चतुर्दशी । * शिवरात्रिस्तु सा ज्ञेया सर्व पुण्यशुभावहा ||" इति । * आदर्शपुस्तके - 'शिवरात्रिः स्यात्सर्वपुण्यशुभावहा' पाठोऽस्ति । १८६ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy