SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ १५८ तिथ्यर्कः शैवपुराणेऽपि "शङ्खचक्रायनं च नृत्यगीतादिकं तथा । एकजातेरयं धर्मो न जातु स्याद् द्विजन्मनः ॥" इति । आश्वलायनः "शिवकेशवयोरङ्कान् शूलचक्रादिकान द्विजः । न धारयेत्तु मतिमान् वैदिके वर्त्मनि स्थितः ॥ यथा श्मशान काष्ठमनह सर्वकर्मसु । तथा चक्राङ्कितो विप्रः सर्वकर्मसु गर्हितः ॥" श्रावणशुक्लद्वादश्यां देवे पवित्रारोपणं कार्यम् । तदुक्तं हेमाद्रौ विष्णुरहस्ये "श्रावणे ह्यसिते पक्षे कर्कटस्थे दिवाकरे । द्वादश्यां वासुदेवाय पवित्रारोपणं स्मृतम् ॥” इति । कुलधर्मानुरोधेनाप्युक्तं निर्णयामृते मात्स्ये "आषाढ्यामथवा षष्ठयां चतुर्दश्यामुमापतिम् । पवित्ररचयेद् भाद्रयां श्रावण्यां च विशेषतः ॥” इति । अत्र सर्वेषामप्यधिकार उक्तो विष्णुरहस्ये "ब्राह्मणः क्षत्रियो वैश्यस्तथा स्त्री शूद्र एव च । खधर्मावस्थिताः सर्वे भक्त्या कुर्युः पवित्रकम् ॥ पवित्रारोपणं काले न करोति कथंचन । तदाऽयुतं जपेन्मन्त्रं स्तोत्रं वापि समाहितः ॥" इति रामार्चनचन्द्रिकायां प्रायश्चित्तश्रवणानित्यमिदम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy