SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ १५७ तिथ्यर्कः "पश्चाननस्था गुरुभूमिपुत्रौ मेषे रविः स्याद्यदि शुक्लपक्षे । पाशाभिधाना करभेण युक्ता तिथिर्व्यतीपात इतीह योगः ॥" 'पञ्चाननः सिंहः । 'पाशाभिधाना' द्वादशी । 'करभो' हस्तम् । अत्रैव श्राद्धमुक्त प्राक् । ज्येष्ठशुक्लद्वादश्यां वटसावित्रीव्रतारम्भ उक्तो भविष्ये "ज्येष्ठे मासि सिते पक्ष द्वादश्यां रजनीमुखे । व्रतं त्रिरात्रमुद्दिश्य दिवारानं स्थिरा भवेत् ॥” इति । अत्र पूर्णिमानुरोधेन यथा त्रिरात्रं भवति तथा द्वादश्यां त्रयोदश्यां वा प्रारम्भः कार्यः । इयमेव रामद्वादशी। अत्र रामपूजोक्ता निर्णयामृते वाराहपुराणे "ज्येष्ठे मासेऽप्येवमेव सङ्कल्प्य विधिना नरः। नमो रामाभिरामाय पादौ पूर्व समर्चयेद् ।।" इति । आषाढशुक्लद्वादश्यां तप्तमुद्राधारणमुक्तं भविष्ये "शयन्यां चैव बोधिन्यां चक्रतीर्थे तथैव च । शङ्खचक्रविधानेन वहिपूतो भवेन्नरः ॥” इति । अन्यत्रापि "तद्विष्णोः परमं पदं ये गच्छन्ति हि लाञ्छिताः" । इति । अत्र शूद्रस्याधिकारो न ब्राह्मणादेः। तदुक्तं नारदीये "शङ्खचक्रं मृदा यस्तु कुर्यात्तप्तायसेन वा। स शूद्रवद् वहिः कार्यः सर्वस्माद् द्विजकर्मणः ॥” इति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy