SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ १५६ तिथ्यर्कः "इमं दमनक देव ! गृहाण मदनुग्रहात् । इमां सांवत्सरी पूजां भगवन् ! परिपूरय ॥” इति । "मन्त्रहीन क्रियाहीनं भक्तिहीनं जनार्दन ! । यत्पूजितं मया देव ! परिपूर्ण तदस्तु मे ॥" इति संपार्थ्य, नमस्कारान् कृत्वा, ब्राह्मणान् भोजयित्वा पारण कुर्यात् । द्वादश्यलाभे त्रयोदश्यामपीदं कार्यमित्युक्तं तत्रैव "पारणाहे न लभ्येत द्वादशी घटिकापि वा । तदा त्रयोदशी ग्राह्या पवित्रा दमनार्पणे ॥” इति । इदं च दमनार्पण नित्यम् "ऊर्जे व्रतं मधो दोला श्रावणे तन्तुपूजनम् । चैत्रे च दमनारोपमकुर्वाण व्रजत्यधः ॥" इति रामार्चनचन्द्रिकायामनिष्टश्रुतेः। श्रीसूर्यादिभक्तैस्तु सप्तम्यादा दमनकार्पणं कार्यमिति तत्रैवोक्तम्-- ___"तत्र स्यात्स्वीयतिथिषु वयादेर्दमनार्पणम् ।" इति । तत्र मधावित्यर्थः। वह्नयादयस्तु तिथिक्रमेण प्रागुक्ताः । अस्यां वामनाराधनमुक्तं निर्णयामृते वाराहपुराणे "सौवणं वामनं मासि चैत्र सङ्कल्प्य द्वादशीम् । उपोष्याऽऽराधयेत्पश्चाद् देवदेवन्तु वामनम् ॥” इति । एकादश्यामुपोष्य द्वादश्यां सङ्कल्पपूर्वकं सौवर्ण वामनं पूजयेदित्यर्थः । वैशाखशुक्ल द्वादश्यां योगविशेष उक्तो ज्योतिःशास्त्रे Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy