SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्क: १५५ प्रातःकालोऽह्नः पञ्चधा विभागपक्षे ज्ञेयः । वचनं स्वलेखि प्राक् । स्वल्पायां पारणासम्भवेऽनुकल्पमाह देवलः - " सङ्कटे विषमे प्राप्ते द्वादश्यां पारयेत्कथम् । अद्धिस्तु पारणं कुर्यात् पुनर्भुक्तं न देोषकृत् ॥” इति । सम्पूर्णायामपि द्वादश्यां श्राद्धप्राप्तावेतस्मादेव वाक्यादद्भिः पारणं कार्यमेव । यदा द्वादश्येव नास्ति तदा त्रयोदश्यां पारणमुक्तं नारदीये " त्रयोदश्यां तु शुद्धायां पारणं पृथिवीफलम् । शतयज्ञाधिकं वापि नरः प्राप्नोत्यसंशयम् ॥” इति । द्वादश्याः प्रथमपादस्य हरिवासरसंज्ञा । तद्वर्जनं चाक्तं निर्णयामृते विष्णुधर्मोत्तरे " द्वादश्याः प्रथमः पादो हरिवासरसंज्ञितः । अतिक्रम्य तु कर्त्तव्यं पारणं विष्णुतत्परैः ॥” इति । विष्णुतत्परैरीश्वरभक्तैरित्यर्थः । अथ चैत्रशुक्ल द्वादश्यां दमनकाकर्षरणम् । तदुक्तमगस्त्य संहितायाम् — “द्वादश्यां चैत्रमासस्य शुक्लायां दमनोत्सवः । बौधायनादिभिः प्रोक्तः कर्त्तव्यः प्रतिवत्सरम् ॥” इति । दमनकानयनप्रकारस्तु चैत्रशुक्लैकादश्यामुक्तः । पूर्वेयुरानीतं दमनकं द्वादश्यां गृहीत्वेश्वराय समर्पयेत् । तत्र मन्त्रः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy