SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ १५४ तिथ्यर्कः एकादशी शुक्रेण सिद्धा। भीमेन विरुद्धा । योगिन्यस्यामाग्नेय्यामित्येकादशी निर्णीता ॥ अथ द्वादशी निर्णीयते । सा पूर्वा कार्या, "द्वादशी च प्रकर्त्तव्या एकादश्या युता प्रभो !" इति माधवीयस्कान्दात् 'रुद्रेण द्वादशी युक्ता' इति युग्मवाक्याच्च । पारणानिर्णये हेमाद्रौ कूर्मपुराणे "एकादश्यामुपोष्यैवं द्वादश्यां पारण स्मृतम् । त्रयोदश्यां न तत्कुर्याद् द्वादशद्वादशीक्षयात् ॥" तत्रैव "कलाद्वयं त्रयं वापि द्वादशी न त्वतिक्रमेत् ।" अतिक्रान्तायां द्वादश्यांतु सर्व नित्यं प्रातरेव समाप्य तस्यां पारणं कुर्यात् । तदुक्तं हेमाद्रौ पाझे "यदा भवेदतीवाऽल्पा द्वादशी पारणा दिने । उषःकाले द्वयं कुर्यात्मातर्माध्याह्निकं तदा ॥” इति । तत्रैव कात्यायनः "क्रमतस्तु च कृत्येषु यद्यन्तमपकृष्यते । तदा सर्वापकर्षः स्यादन्यथा क्रमवाधनात् ॥" माध्याह्नापकर्षस्तु सम्पूर्णायामपि द्वादश्यां कार्यम् , "सर्वेषामुपवासानां प्रातरेव हि पारणा ।" इति पा अवचसा प्रातःकाले पारणाविधानात् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy