SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ १५३ तिथ्यर्कः श्रोसूर्यायार्घ्यदानमुक्तं पृथ्वीचन्द्रोदये "सवित्र प्रसवित्रे च परं धाम जले मम । त्वत्तेजसा परिभृष्टं पापं याति सहस्रधा ।।" इति । माघस्नानमदः प्रयागेऽतिप्रशस्तमुक्तं पद्मपुराणे "काश्याः शतगुणा प्रोक्ता गङ्गा यामुनसङ्गमे । सहस्रगुणिता सापि भवेत्पश्चिमवाहिनी ।। पश्चिमाभिमुखी गङ्गा कालिन्द्या सह संगता। हन्ति कल्पकृतं पापं सा माघे नृप ! दुर्लभा" ॥ इति । विशेषस्त्वस्मन्मातृप्रपितामहभट्टश्रीनारायणपदपायोजविरचितात् प्रयागसेतोरवगन्तव्यः । अत्राऽसमर्थख्यहं स्नायात्, "अस्मिन् योगे त्वशक्तोऽपि स्नायादपि दिनत्रयम् ।" इति पद्मपुराणात् । अत्र मकरसंक्रमरथसप्तमीमाघीपार्णमासीति दिनत्रयमिति केचित् । माघशुक्लदशम्यादीत्येके । मकराद्ययह इत्यन्ये । माघस्याऽऽद्यव्यह इत्यपरे । यत् किश्चिद् दिनत्रयमिति श्रीमातुः प्रपितामहचरणाः। माघशुक्लत्रयोदश्यादीति भूरयो निबन्धकाराः । एवं षट्पक्षाः सिद्धाः । फाल्गुनशुक्लैकादश्यामामलकीवृक्षस्थितं विष्णु पूजयेदित्युक्तं निर्णयामृते भविष्योत्तरे "फाल्गुने मासि शुक्लायामेकादश्यां जनार्दनः । वसत्यामलकीने लक्ष्म्या सह जगत्पतिः ॥ तत्र सम्पूज्य देवेशं भक्त्या कुर्यात् प्रदक्षिणम् ।" इति । २० www.umaragyanbhandar.com Shree Sudharmaswami Gyanbhandar-Umara, Surat
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy