SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ १५६ तिथ्यर्कः "न करोति विधानेन पवित्रारोपणं तु यः। तस्य सांवत्सरी पूजा निष्फला मुनिसत्तम ! ॥" इति विष्णुरहस्येऽनिष्टश्रवणाच्च । पवित्रार्पणविधिर्भविष्ये "सोपवासः शुचिः प्रातः कृतजाप्यो जितेन्द्रियः । दत्वा दानं द्विजारयेभ्यः पूजयित्वा जनार्दनम् ॥ पूर्वाधिवासितं सम्यक समादाय पवित्रकम् ।" पवित्राधिवासनं तु श्रावण शुक्लैकादश्यामुक्तम् "अता देवेति मन्त्रेण विष्णोर्मूर्ध्नि निवेदयेत् । सूक्तस्य मूलमन्त्रो वा येन वै पूजयेद्धरिम् ।।" येन वेत्यनेन नाममन्त्र उक्तः। प्रार्थना तत्रैव "मणिविद्रुममालाभिर्मन्दिरं कुसुमादिभिः । एषा सांवत्सरी पूजा तवाऽस्तु गरुडध्वज ! ॥ अपराधसहस्राणि क्रियन्तेऽहनिशं मया । दासोऽहमिति मां मत्वा क्षमस्व मधुसूदन ! ॥ ततः पवित्रं गुरवे दद्याद् गन्धादिपूर्वकम् । ब्राह्मणान् वैष्णवांश्चैव गन्धपुष्पादिनायेत् ॥ पक्षं द्विमासं सद्यो वा त्रिरात्रं पञ्च वा नव । स्थाप्यमिति शेषः । सांवत्सरी शुभां पूजां संपाद्य विधिवनमः । व्रजेदानी पवित्र ! त्वं विष्णुलोकं विसर्जितम् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy