SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्कः मन्त्रेणानेन तत्सूत्रमवतार्य यथाविधि । उत्तार्य ब्राह्मणे दद्यात्तोये वाऽथ विसर्जयेत् ॥ अनेनैव विधानेन सर्वेषां त्रिदिवौकसाम् । पवित्रारोपणं कुर्यान्मूर्ती वा स्थण्डिलेऽपि वा ॥ तत्तन्मन्त्रौः समावेशी विसर्जनविधिक्रियाः ।" इति दिक् । भाद्रशुक्लद्वादशी वामनजयन्ती, तस्यां वामनावतारात् । तदुक्तं श्रीभागवतेऽष्टमस्कन्धेऽष्टादशाध्यायारम्भे "श्रोणायां श्रवणद्वादश्यां मुहूर्तेऽभिजिति प्रभुः । ग्रहनक्षत्रताराद्याश्चक्रुस्तज्जन्म दक्षिणम् ॥ द्वादश्यां सविता तिष्ठन्मध्यंदिनगतो नृप ! । विजया नाम सा प्रोक्ता तस्यां जन्म विदुहरेः॥" व्रतहेमाद्रौ पक्षान्तरमुक्तम् "अथ काले बहुतिथे गते सा गुर्विणी भवेत् । सुषुवे नवमे मासि पुत्रं सा वामनं हरिम् ।। एतत्सर्व समभवदेकादश्यां युधिष्ठिर ! ।। तेनेष्टा देवदेवस्य सर्वथा विजया तिथिः ॥” इति । अत्र कल्पभेदेन व्यवस्था। सम्प्रति श्रीभागवतपक्ष एवाद्रियते शिष्टैः। इयं मध्याह्न वामनप्रादुर्भावान्मध्याह्नव्यापिनी ग्राहया। दिनद्वये मध्याह्नव्याप्तावव्याप्तौ वा पूर्वा, पूर्वोक्तस्कान्दवचनात् । तत्र विधिर्वतहेमाद्रावग्निपुराणे * 'भाद्रद्वादश्याम्' इति पाठान्तरम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy