SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्कः १६१ "नदीनां सङ्गमे स्नायादर्चयेदत्र वामनम् । सौवर्ण वस्त्रसंयुक्तं द्वादशाङ्गलमुच्छितम् ॥" इति तं सम्पूज्य सौवर्णपात्रेणायं दद्यात् । तत्र मन्त्रः "नमस्ते पद्मनाभाय नमस्ते जलशायिने । तुभ्यमर्थ्य प्रयच्छामि बालवामनरूपिणे ॥" एवं कृत्वा परदिने प्रतिमा विप्राय दद्यात् । दानमन्त्रः "वामनः प्रतिगृह्णाति वामनोऽहं ददामि ते । वामनं सर्वतो भद्रं द्विजाय प्रतिपादये ॥” इति । इयमेव श्रवणयुक्ता श्रवणद्वादशी। अत्रोपोषणं कार्यम्, "द्वादश्यामुपवासात्र त्रयोदश्यां तु पारणम् । निषिद्धमपि कर्त्तव्यमित्याज्ञा पारमेश्वरी ॥" इति हेमाद्रिधृतनारदपुराणात् । एषा च द्वादशी श्रवणयोगमात्रेण सर्वापि पुण्यतमा भवति । तदुक्तं मात्स्ये___ "द्वादशी श्रवणायुक्ता कृत्स्ना पुण्यतमा तिथिः । न तु सा तेन संयुक्ता तावत्येव प्रशस्यते ॥" इति । श्रवणस्पृष्टेयं द्वादशी एकादशी स्पृशेच्चेद् विष्णुशृङ्खला। तत्रोपवासे महत् फलम् । तदुक्तं हेमाद्रौ मत्स्यपुराणे "द्वादशी श्रवणास्पृष्टा स्पृशेदेकादशी यदि । स एव वैष्णवो योगो विष्णुशृङ्खलसंज्ञितः ॥ २१ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy