SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्क: तस्मिन्नुपोष्य विधिवन्नरः संक्षीणकल्मषः । प्रामोत्यनुत्तमां सिद्धिं पुनरावृत्तिदुर्लभाम् ॥” इति । श्रवणास्पृष्टा श्रवणेन युक्तेत्यर्थः । अस्मिन्नेव वचने श्रवणशब्दस्य स्त्रीलिङ्गेऽपि दर्शनात् । निर्णयामृतकारस्तु - १६२ " द्वादशी श्रवण च स्पृशेदेकादशीं यदि । स एव वैष्णवो योगो विष्णुशृङ्खलसज्ञितः ।। " एव मिदं वचो लिलेख । तेन तन्मते श्रवणस्यैकादशीद्वादशीभ्यां सह योग एव विष्णुशृङ्खलमन्यथा नेति । हेमाद्रिमते तु — एकादश्याः श्रवणयोगाभावेऽपि तद्युक्तद्वादशीमात्र योगे विष्णुशृङ्खलमिति भेदः । यदैकादश्येव श्रवणान्विता तदैकेनैवेापवासेन द्वयोः सिद्धिः । तदेतदभिप्रेत्योक्तं हेमाद्रौ नारदीये - " यदा न प्राप्यते ऋक्षं द्वादश्यां वैष्णवं कचित् । एकादशी तापाया पापनी श्रवणान्विता ॥ उभयेोर्देवता विष्णुः पुराणपुरुषोत्तमः । विभेदोऽपि न कर्त्तव्यो विभेदात्पतते नरः || ” इति । अनुष्ठितैकादशीव्रतः सन् परदिने यस्तूपवासासमर्थः स तु पूजामात्रं कुर्यात् । तथा च मात्स्ये " द्वादश्यां शुक्लपक्षे तु नक्षत्रं श्रवणं यदि । उपोष्यैकादशीं तत्र द्वादश्यां पूजयेद्धरिम् ॥” इति हरिपूजामेव कुर्वीत न तूपवासमित्यर्थः । उपवासकरणे तदङ्गदरिपूजायाः प्राप्तत्वादेव पुनस्तद्विधिवैयर्थ्यात् । यस्तूप Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy