________________
तिथ्यर्क:
तस्मिन्नुपोष्य विधिवन्नरः संक्षीणकल्मषः । प्रामोत्यनुत्तमां सिद्धिं पुनरावृत्तिदुर्लभाम् ॥” इति । श्रवणास्पृष्टा श्रवणेन युक्तेत्यर्थः । अस्मिन्नेव वचने श्रवणशब्दस्य स्त्रीलिङ्गेऽपि दर्शनात् । निर्णयामृतकारस्तु -
१६२
" द्वादशी श्रवण च स्पृशेदेकादशीं यदि ।
स एव वैष्णवो योगो विष्णुशृङ्खलसज्ञितः ।। " एव मिदं वचो लिलेख । तेन तन्मते श्रवणस्यैकादशीद्वादशीभ्यां सह योग एव विष्णुशृङ्खलमन्यथा नेति । हेमाद्रिमते तु — एकादश्याः श्रवणयोगाभावेऽपि तद्युक्तद्वादशीमात्र योगे विष्णुशृङ्खलमिति भेदः । यदैकादश्येव श्रवणान्विता तदैकेनैवेापवासेन द्वयोः सिद्धिः । तदेतदभिप्रेत्योक्तं हेमाद्रौ नारदीये -
" यदा न प्राप्यते ऋक्षं द्वादश्यां वैष्णवं कचित् । एकादशी तापाया पापनी श्रवणान्विता ॥
उभयेोर्देवता विष्णुः पुराणपुरुषोत्तमः ।
विभेदोऽपि न कर्त्तव्यो विभेदात्पतते नरः || ” इति । अनुष्ठितैकादशीव्रतः सन् परदिने यस्तूपवासासमर्थः स तु पूजामात्रं कुर्यात् । तथा च मात्स्ये
" द्वादश्यां शुक्लपक्षे तु नक्षत्रं श्रवणं यदि । उपोष्यैकादशीं तत्र द्वादश्यां पूजयेद्धरिम् ॥”
इति हरिपूजामेव कुर्वीत न तूपवासमित्यर्थः । उपवासकरणे तदङ्गदरिपूजायाः प्राप्तत्वादेव पुनस्तद्विधिवैयर्थ्यात् । यस्तूप
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com