SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ विथ्यर्कः वासासमोऽस्वीकृतैकादशीव्रतश्च स 'काम्यं नित्यस्य बाधकम्' इति न्यायेन द्वादश्युपोषणमेव कुर्यात् । तदुक्तं नारदीये "उपोष्य द्वादशी पुण्यां विष्णुऋक्षेण संयुताम् । एकादश्युद्भवं पुण्यं नरः प्रामोत्यसंशयम् ॥” इति । यस्तूपवासद्वयसमर्थस्तं प्रति भविष्योत्तरे "एकादश्यामुपोष्यैव द्वादश्यामप्युपोषयेत् । न चात्र विधिलोपः स्यादुभयोर्दैवतं हरिः॥" इति । विधिलोपः पारणाविधिलोपः । अत्र कृत्यं मदनरत्ने विष्णुधर्मोत्तरे-- "या राम ! श्रवणोपेता द्वादशी महती तु सा । तस्मिन् दिने तथा स्नानं यत्र कचन संगमे ॥ कार्यमिति शेषः। दध्योदनयुतं तस्यां जलपूर्ण घटं द्विज !। . वस्त्रसंवेष्टितं दत्वा गतिमयां च विन्दति ॥ प्रामोत्ययत्नाद् धर्मज्ञ ! द्वादशद्वादशीफलम् ।" इति । घटदाने मन्त्रः "नमो नमस्ते गोविन्द ! बुधश्रवणसंज्ञक ! । अघौघसंक्षयं कृत्वा सर्वसौख्यप्रदो भव ॥ प्रीयतां देवदेवेशो मम संशयनाशनः ।" इति । इयं बुधान्विता प्रशस्तेत्युक्तं हेमाद्रौ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy