________________
तिथ्यर्क: "बुधश्रवणसंयुक्ता सैव च द्वादशी भवेत् ।
अत्यन्तमहती सा स्याद् दत्तं भवति चाऽक्षयम् ॥” इति । पारणमन्यतरान्ते कार्यम् । तदुक्तं हेमाद्रौ नारदीये “तिथिनक्षत्रयोर्योगे उपवासो यदा भवेत् । पारणं तु न कर्त्तव्यं यावन्नैकस्य संक्षयः ॥” इति । अयमन्यतरान्तपारणापक्ष गौणो न तु मुख्यः,
१६४
“याः काचित्तिथयः प्रोक्ताः पुण्यनक्षत्रयोगतः । ऋक्षान्ते पारणं कुर्याद्विना श्रवणरोहिणीम् ॥” इति वचने श्रवणरोहिण्येाः पर्युदासाश्रयणात् । तस्मादुभयान्ते
पारणमिति मुख्यः कल्पः ।
sa प्रसङ्गादितरमहाद्वादशीनामानि ब्रह्मवैवर्ते_ "उन्मीलनी वञ्जुला च त्रिस्पृशा पक्षवर्द्धिनी । जया च विजया चैव जयन्ती पापनाशिनी ॥ द्वादश्यrst महापुण्याः सर्वपापहरा द्विजाः ! ॥” इति । एतासां लक्षणादिकं प्रचुरप्रचाराभावान्नोक्तमिति संक्षेपः । आश्विन कृष्णद्वादश्यां संन्यासिनां महालय श्राद्धमुक्तं वायुपुराणे
"संन्यासिनेोऽप्याब्दिकादि पुत्रः कुर्याद् यथाविधि । महालये तु यच्छ्राद्धं द्वादश्यां पार्वणेन तु ॥” इति । आश्विनशुक्लद्वादश्यां पद्मनाभ पूजाक्ता निर्णयामृते वाराहपुराणे
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com