________________
तिथ्यर्क:
" सम्यगाश्वयुजे मासि द्वादश्यां शुक्लपक्षके । सङ्कल्प्याभ्यर्चयेद्देवं पद्मनाभं सनातनम् ॥” इति । कार्त्तिक कृष्णद्वादश्यां गोवत्सद्वादशीव्रतम् । तदुक्तं मदनरत्ने
भविष्ये
" सम्प्राप्ते कार्त्तिके मासि कृष्णपक्षे कुरूत्तम ! | महापुण्यत्रतं स्त्रीणां गोवत्सद्वादशीव्रतम् ||" व्रतविधिस्तत्रैव --
"द्वादश्यां कृतसङ्कल्पः स्नात्वा पुण्ये जलाशये । नरो वा यदि वा नारी नक्तं सङ्कल्प्य चेतसि ॥ ततेा मध्याह्नसमये कृत्वा देवार्चनादिकम् । प्रतीक्षेतागमं भक्त्या गवां गोध्यानतत्परः ॥ सवत्सां तुल्यवर्णा च शीलिनीं गां पयस्विनीम् । चन्दनादिभिरालिप्य पुष्पमालाभिरर्चयेत् ॥ अर्घ्यं ताम्रमये पात्रे कृत्वा पुष्पाक्षतैस्तिलैः । पादमूले तु दद्याद्वै मन्त्रेणाऽनेन पाण्डव ! ।। क्षीरेरादार्णव सम्भूते ! सुरासुरनमस्कृते ! । सर्वदेवमये ! मातगृहाणार्घ्यं नमो नमः ॥ दत्वार्ध्य साक्षतं पुण्यं तज्जलं मूर्ध्नि निक्षिपेत् । ततो माषादिसंसिद्धान् वटकान् विनिवेदयेत् ॥ पञ्च सप्त दशैकं वा यथाविभवमात्मनः ।" इति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
१६५
www.umaragyanbhandar.com