SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्क: १६६ गोग्रासे मन्त्रौ - “सौरभेय्यः सर्वहिताः पवित्राः पुण्यराशयः । प्रतिगृन्तु मे ग्रासं गावस्त्रैलोक्यमातरः || सुरभि ! त्वं जगन्मातर्देवि ! विष्णुपदे स्थिता | सर्वदेवमये ! ग्रासं मया दत्तमिमं ग्रस ॥” इति । प्रार्थना “प्रार्थयेच्चाशिषः सम्यक् बध्वायें करसम्पुटम् । सर्ववेदमये ! देवि ! सर्वदेवैरलंकृते ! ॥ मातर्ममाभिलषितं सफलं कुरु नन्दिनि ! |" इति । अत्र वर्ज्य तत्रैव " तद्दिने तापिकापकं स्थालीपकं युधिष्ठिर ! | गोक्षीरं गोघृत ं चैव दधि तक्रं च वर्जयेत् ॥” इति । 'तापिका' रोटिकाभर्जनपात्रम् । भक्ष्य ं तत्रैव — “भाषान्नं कामतेोऽश्नीयाद्रात्रौ विगतमत्सरः ।" इति । इयं सायाह्वव्यापिनी ग्राह्या, गवागमनप्रतीक्षोक्तेः | दिनद्वये चेत्पूर्वा, "वत्सपूजा वटश्चैव कर्तव्या प्रथमेऽहनि ।” इति स्मृत्यन्तरात् । अत्र कार्तिकः कृष्णप्रतिपदादिगृह्यते, शिष्टाचारात् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy