________________
१०८
तिथ्यर्कः "धर्मराज दशम्यां च पूजयित्वा सुगन्धकैः । विगतारिनिरातङ्क इह चान्ते परं पदम् ॥” इति ।
प्रामोतीति शेषः। ज्येष्ठशुक्लदशमी दशहरा। तदुक्तं हेमाद्रौ ब्राह्म
"ज्येष्ठे मासि सिते पक्षे दशमी हस्तसंयुता ।
हरते दशपापानि तस्माद्दशहरा स्मृता ॥” इति । दशपापान्याह मनुः
"अदत्तानामुपादानं हिंसा चैवाविधानतः । परदारोपसेवा च कायिकं त्रिविधं स्मृतम् ।। पारुष्यमन्तञ्चैव पैशुन्यं चापि सर्वशः । असम्बद्धमलापश्च वाङ्मयं स्याच्चतुर्विधम् ।। परवित्तेष्वभिध्यानं मनसानिष्टचिन्तनम् ।
वितथाभिनिवेशश्च मानसं त्रिविधं स्मृतम् ।।" अस्यां दश योगा उक्ताः स्कान्दे
"ज्येष्ठे मासि सिते पक्षे दशम्यां बुधहस्तयोः । व्यतीपाते गरानन्दे कन्याचन्द्रे वृषे रवौ ॥
दशयोगे नरः स्नात्वा सर्वपापैः प्रमुच्यते ।" इति । गरः करणम् । आनन्दो योगविशेषः । वाराहपुराणे तु पञ्चयोगा उक्ताः
"दशम्यां शुक्लपक्षे तु ज्येष्ठे मासि कुजेऽहनि । अवतीर्णा ह्यतः स्वर्गाद्धस्तः च सरिद्वरा ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com