SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ १०८ तिथ्यर्कः "धर्मराज दशम्यां च पूजयित्वा सुगन्धकैः । विगतारिनिरातङ्क इह चान्ते परं पदम् ॥” इति । प्रामोतीति शेषः। ज्येष्ठशुक्लदशमी दशहरा। तदुक्तं हेमाद्रौ ब्राह्म "ज्येष्ठे मासि सिते पक्षे दशमी हस्तसंयुता । हरते दशपापानि तस्माद्दशहरा स्मृता ॥” इति । दशपापान्याह मनुः "अदत्तानामुपादानं हिंसा चैवाविधानतः । परदारोपसेवा च कायिकं त्रिविधं स्मृतम् ।। पारुष्यमन्तञ्चैव पैशुन्यं चापि सर्वशः । असम्बद्धमलापश्च वाङ्मयं स्याच्चतुर्विधम् ।। परवित्तेष्वभिध्यानं मनसानिष्टचिन्तनम् । वितथाभिनिवेशश्च मानसं त्रिविधं स्मृतम् ।।" अस्यां दश योगा उक्ताः स्कान्दे "ज्येष्ठे मासि सिते पक्षे दशम्यां बुधहस्तयोः । व्यतीपाते गरानन्दे कन्याचन्द्रे वृषे रवौ ॥ दशयोगे नरः स्नात्वा सर्वपापैः प्रमुच्यते ।" इति । गरः करणम् । आनन्दो योगविशेषः । वाराहपुराणे तु पञ्चयोगा उक्ताः "दशम्यां शुक्लपक्षे तु ज्येष्ठे मासि कुजेऽहनि । अवतीर्णा ह्यतः स्वर्गाद्धस्तः च सरिद्वरा ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy