SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्क: "माघमासे तु या शुक्ला नवमी लोकपूजिता । महानन्दा तु सा प्रोक्ता सदानन्दकरी नृणाम् || तस्यां स्नानं तथा दा ं जपहोमाभिषेचनम् । सर्वं तदक्षयं प्रोक्तं तदस्यां क्रियते नरैः ॥” इति । नवमी मन्देन सेोमेन सिद्धा । बुधेन विरुद्धा | योगिन्यत्र पूर्व - स्यामिति नवमी निर्णीता । थ दशमी निर्णीयते । सा तु शुक्लोत्तरा, कृष्णा पूर्वा । एतदेवाभिप्रेत्याहाङ्गिराः - " सम्पूर्णा दशमी कार्या परया पूर्वयाऽथवा । युक्ता न दूषिता यस्मातिथिः सा सर्वतामुखी ॥” इति । हेमाद्रिस्त्वयमैच्छिको विकल्प इत्याह तत्र शास्त्रता व्यवस्थासम्भवात् । तथा च मार्कण्डेय:" शुक्लपक्षे तिथिग्रया यस्यामभ्युदिता रविः ।" इति । उपवासे तु पक्षद्वयेऽपि सर्वनिबन्धकारसम्मता पूर्वेव कार्या " दशमी चैव कर्त्तव्या सदुर्गा सा द्विजोत्तम ! ।” इति स्कान्दात् । "नागविद्धा तु या षष्ठी शिवविद्धा च सप्तमी । दशम्येकादशीविद्धानोपाध्या सा कथंचन ।। " देवीपुराणे - १०७ - इति शिवरहस्ये एकादशीविद्धनिषेधाच्च । अथ चैत्रशुकदशम्यां यमपूजनं कार्यमित्युक्तं निर्णयामृते Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy