________________
१०६
तिथ्यर्कः "रात्रौ भुङ्क्ते वत्सरे तु मन्वादिषु युगादिषु ।
अभिस्वदृष्टिं मन्त्रश्च जपेदशनपातके ॥” इति । भत्र समुद्रस्नानमप्युक्तं पृथ्वीचन्द्रोदये सौरपुराणे
"युगादा तु नरः स्नात्वा विधिवल्लवणोदधौ । गोसहस्रपदानस्य कुरुक्षेत्रे फलं हि यत् ॥
तत्फलं लभते मर्यो भूमिदानस्य च ध्रुवम् ।" इति । अयमेव विधिः सर्वयुगादिषु ज्ञेयः। अथात्र प्रसङ्गाद् युगान्ताः पदयन्ते । हेमाद्रौ ब्रह्मपुराणे
"मूर्यस्य सिंहसंक्रान्त्यामन्तः कृतयुगस्य तु । अथ वृश्चिकसंक्रान्त्यामन्तस्त्रेता युगस्य तु ॥
यस्तु वृषसंक्रान्त्यां द्वापरान्तस्तु संज्ञया । तथा कुम्भस्य संक्रान्त्यामन्तः कलियुगस्य तु ॥
युगादिषु युगान्तेषु श्राद्धमक्षय्यमुच्यते ।" इति । मार्गशुक्लनवमी नन्दिनी। तस्यां त्रिरात्रोपोषित इष्टदेवतां पूजयेत् । तदुक्तं निर्णयामृते भविष्योत्तरे
"मासि मार्गशिरे वीर ! शुक्लपक्षे तु या भवेत् । सा नन्दिनी महापुण्या नवमी परिकीर्तिता ॥ यस्तस्यां पूजयेद्देवीं त्रिरात्रोपोषितो नरः ।
सोऽश्वमेधमवाप्येह विष्णुलोके महीयत ॥” इति । माघशुक्लनवमी महानन्दा प्रोक्ता तत्रैव
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com