SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ १०५ तिथ्यर्कः इति इयं युगादिः । तदुक्तं विष्णुपुराणे "वैशाखमासस्य तु या तृतीया नवम्यसौ कार्तिक शुक्लपक्षे । नभस्यमासस्य तमिस्रपक्षे त्रयोदशी पञ्चदशी च माघे ॥" पञ्चदश्यमा । रत्नमालायामपि-- "माघे पञ्चदशी कृष्णा नभस्ये च त्रयोदशी । तृतीया माधव शुक्ला नवम्यूर्ने युगादयः ॥” इति । अस्यां गोदानादिकमुक्तं विष्णुपुराणे "अस्मिंश्च गोभूमिहिरण्यवस्त्रदानेन सर्व प्रविहाय पापम् । शूरत्वमिन्द्रस्य सुहृत्त्वमेति माधिपत्यं लभते मनुष्यः ॥” इति । अत्र श्राद्धमप्युक्तं ब्रह्माण्डे "आषाढ्यामथ कार्तिक्यां माध्यां मन्वन्तरादिषु । युगादिषु च दुःस्वप्ने जन्मझे ग्रहपीडिते ।। प्रौष्ठपद्यसिते पक्षे श्राद्धं कुर्वीत यत्नतः ।" इत्यनेनास्य नित्यत्वमुक्तम् । "न यस्य द्यावा मन्त्रश्च शतवारं तदा जपेत् । युगादयो यदा शून्याः कुरुते सैव चाप्रियः ॥” इति । ऋग्विधाने प्रायश्चित्तश्रवणाच्च । अत्र चतसृष्वपि युगादिषु श्राद्धमपराह्न कार्यम् । दानं तु शुक्ल पूर्वाह्न , कृष्णेऽपराह्न । ___ "द्वे शुक्ल द्वे तथा कृष्णे युगादि कवयो विदुः ।" इति पूर्वोक्तनारदीयवचनात् । अत्र रात्रिभोजने प्रायश्चित्तमुग्विधाने Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy