________________
तिथ्यर्क:
हरते दश पापानि तस्माद्दशहरा स्मृता ।" इति । योगविशेषेण पूर्वा परा वा ग्राह्या । यत्त्वत्र उक्तयेोगेभ्यो न्यूनयोगेन स्नानमित्युक्तं सिन्धुकारज्येष्ठैस्तत्प्रमाणाभावादुपेक्ष्यम् । वस्तुतस्तु ज्येष्ठ शुक्ल दशम्याः प्राधान्याद्धस्तादियोगाभावेऽपि केवलदशम्यां यथेोक्तस्नानं कार्यमेव । अस्यां कृत्यमुक्तं भविष्ये
" तस्यां दशम्यामेतच्च स्तोत्रं गङ्गाजले स्थितः । यः पठेदशकृत्वस्तु दरिद्रो वापि चाक्षमः ॥ सोऽपि तत्फलमाप्नोति गङ्गां सम्पूज्य यत्नतः । " इति । स्कान्देऽपि
यां काञ्चित्सरितं प्राप्य दद्यादर्घ्यं तिलोदकम् । मुच्यते दशभिः पापैः स महापातकोपमैः ॥” इति ।
अत्र विशेष: काशीखण्डे
“ज्येष्ठमास सिते पक्ष दशम्यां हस्तसंयुते । गङ्गातीरे तु पुरुषो नारी वा भक्तिभावतः ॥ निशायां जागरं कुर्याद् गङ्गां दशविधैर्हरे ! | पुष्पैः सुगन्धैनैवेद्यद्यैः फलैर्दशदशन्मितैः ॥ प्रदीपैर्दशभिर्ध पैर्दशाङ्गैर्गरुडध्वज ! | पूजयेच्छ्रद्धया धीमान् दशकृत्वा विधानतः ॥ साज्यान् तिलान् क्षिपेत्तोये गङ्गायाः प्रसृतीर्दश । गुडसक्तुमयान् पिण्डान् दद्याच्च दशमन्त्रतः ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
१०-६
----
www.umaragyanbhandar.com