SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ ११० तिथ्यर्कः नमः शिवायै प्रथमं नारायण्यै पदं ततः । दशहरायै पदमिति गङ्गायै मन्त्र एव वै ॥ स्वाहान्तः प्रणवादिश्च भवेदिशाक्षरो मनुः । पूजा दानं जपो होमोऽनेनैव मनुना स्मृतः ॥ हेम्ना रूप्येण वा शक्तया गङ्गामूर्ति विधाय च । वस्त्राच्छादितवक्त्रस्य पूर्णकुम्भस्य चोपरि ॥ प्रतिष्ठाप्यार्चयेद्देवीं पञ्चामृतविशोधिताम् । चतुर्भुजां त्रिनेत्रां च नदीनदनिषेविताम् ॥ लावण्यामृतनिष्पन्दसंशीलगात्रयष्टिकाम् । पूर्णकुम्भसिताम्भोजवरदाभयसत्कराम् ॥ ततो ध्यायेत्सुसौम्याश्च चन्द्रायुतसमप्रभाम् । चामरैर्वीज्यमानाञ्च श्वेतच्छत्रोपशोभिताम् ।। सुधाप्लावितभूपृष्ठां दिव्यगन्धानुलेपनाम् । त्रैलोक्यपूजितपदां देवर्षिभिरभिष्टुताम् ॥ ध्यात्वा समर्थ्य मन्त्रेण धूपदीपोपहारतः । माञ्च तां च विधि वनं हिमवन्तं भगीरथम् ॥ प्रतिमाग्रे समभ्यर्च्य चन्दनाक्षतनिर्मितान् । दशप्रस्थतिलान दद्यादशविप्रेभ्य आदरात् ।। पलं च कुडवप्रस्थ आढको द्रोण एव च । * मन्त्रेण Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy