________________
तिथ्यर्क :
धान्यमानेषु बोद्धव्या क्रमशोऽमी चतुर्गुणाः ॥ मत्स्य कच्छपमण्डूकमकरादिजलेचरान् । हंसकारण्डववकचक्रसारसटिट्टिभान् ॥ यथाशक्ति स्वर्णरूप्यताम्रपिष्टविनिर्मितान् । अभ्यर्च्य गन्धकुसुमैर्गङ्गायां प्रक्षिपेद् व्रती ॥ एवं कृत्वा विधानेन वित्तशाठ्यविवर्जितः । उपवासी वक्ष्यमाणैर्दशपापैः प्रमुच्यते || अदत्तानामुपादानं हिंसा चैवाविधानतः । परदारोपसेवा च कायिकं त्रिविधं स्मृतम् || पारुष्यमनृतं चैव पैशुन्यं चापि सर्वशः । असंबद्धप्रलापश्च वाङ्मयं स्याच्चतुर्विधम् ॥ परद्रव्येष्वभिध्यानं मनसाऽनिष्टचिन्तनम् । वितथाभिनिवेशश्च मानसं त्रिविधं स्मृतम् ॥ एतैर्दशविधैः पापैर्दशजन्म समुद्भवैः ।
मुच्यते नात्र सन्देहः सत्यं सत्यं गदाधर ! | उद्धरेन्नरकाद् घोरादश पूर्वान् दशावरान् । वक्ष्यमाणमिदं स्तोत्रं गङ्गाग्रे श्रद्धया जपेत् ॥” इति ।
१११
इदं दशहरा कृत्यं मलमासेऽपि कार्य्यमित्याह हेमाद्रानृष्यशृङ्गः"दशहरा नोत्कर्षश्चतुर्ष्वपि युगादिषु ” इति ।
दशहरास्थिति बहुवचनं प्रतिपदादितिथ्यभिप्रायेण ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com