SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्क: " त्रयोदश्यादिता वर्ज्य दिनानां नवकं ध्रुवम् । मङ्गल्येषु समस्तेषु ग्रहणे चन्द्रसूर्ययोः ॥ द्वादश्यादितृतीयान्तो वेध इन्दुग्रहे स्मृतः । एकादश्यादितः सौरे चतुर्थ्यन्तः प्रकीर्त्तितः ॥ खण्डग्रहे तयाः प्रोक्त उभयत्र दिनत्रयम् ।" इत्यादि पौर्णमासीव्यतिरिक्त दिनान्तरस्यापि सदेोषत्वप्रतिपादककर्म्माद्यतिरिक्तकर्म्मविषयं बोध्यम्, "नित्ये नैमित्तिके जप्ये होमयज्ञक्रियासु च । उपाकर्मणि चेोत्सर्गे ग्रहवेधो न विद्यते ।। " इति मदनरत्नधृतवचनात् । केचित्तु - "वेदोपकरणे प्राप्ते कुलीरे संस्थिते वैौ । उपाकर्म न कर्त्तव्यं कर्त्तव्यं सिंहयुक्तके || " २१३ इति वचनाद्बह्वृचानां सिंहार्क एवोपाकर्माऽऽहुः, तन्न, वहृचान्यति त्वनेन वचनेनाऽप्राप्त सिंहार्के विधीयमाने गौरवप्रसङ्गात् । ननु तर्ह्येतस्य वचनस्य का गतिरिति चेच्छृणु, इदं हि वचनं सामगान प्रति युक्तम् । तेषां हि ------ "सिंह खैौ तु पुष्यकें पूर्वाह्न विचरेद्बहिः । छन्दोगा मिलिताः कुर्युरुत्सर्ग स्वस्वच्छन्दसाम् || शुक्लपक्षं तु हस्तेन उपाकर्मापराह्निकम् ।" इति गर्गवचनेन सिंहार्क एव तद्विधानात् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy