SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ २१४ तिबर्फ 'छन्दोगा:' सामगाः । अधिमासे उपाकर्म न कार्यम्, “उपाकर्म तथेोत्सर्गः प्रसवाहोत्सवोऽष्टकाः । मासवृद्धौ परे कार्या वर्जयित्वा तु पैतृकम् ॥” इति पराशरोक्तः । ' परे' उत्तरे मासीत्यर्थः । 'प्रसवाहोत्सवः ' जन्म दिनोत्सवो वर्द्धमानसंज्ञकः । “उत्कर्षः कालवृद्धौ स्यादुपाकर्मादिकर्मणि । श्रभिषेकादिवृद्धीनां न तूत्कर्षो युगादिषु ||" इति कात्यायनवचनाच्च । यत्तु — "दशहरा नोत्कर्षश्चतुर्वपि युगादिषु । उपाकर्ममहाषष्ट्यादिष्टं वृषादितः ।। " इति ऋष्यशृङ्गवचनं छन्दोगविषयम् । तेषां हि 'सिंहार्क एव' तदुक्तेरन्येषां सौरमासग्रहणे प्रमाणाभावात् । प्रथमा यस्तु गुरुभार्गवयेोरिति वक्ष्यमाण संग्रहवचने पाकर्मनिषेधः, स सामगविषय एव तेषां द्वितीयादिप्रयोगस्य सिंहरबा मलमासे सति तत्रैव कर्त्तव्यत्वात् । कर्मपुराणे "श्रावणस्य तु मासस्य पौर्णमास्यां द्विजोत्तमाः । आषाढ्यां प्रोष्ठपद्यां वा वेदेोपाकरणं स्मृतम् ॥” इति । आषाढी तु बौधायनपरा, “ श्रावण्यां पैौर्णमास्यामाषाढ्यां वोपाकृत्य" इति सूत्रात्। पौष्ठपदी हिरण्यकेशितैत्तिरीयाणाम्, सापि Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy