________________
विश्वर्कः
२१५ यदा श्रावणीग्रहसंक्रान्तिसंयुक्ता तदैव नान्यथेति । अत्र तैत्तिरीयाणां प्रागुक्तमौदयिकं पर्व उदाजहार पाराशरीये मार्यः
"श्रावणीपौर्णमासी तु सगवात् परतो यदि ।
तदैवौदयिकी ग्राहया नान्यदादयिकी भनेत ॥” इति । अत्र पौर्णमासीति श्रवणहस्तयोरुपलक्षणम् । तेन तावपि सङ्गवस्पृष्टौ ग्राहयौ। तथा च पृथ्वीचन्द्रोदये
"उदये संगवस्पर्शे श्रुती पर्वणि चार्कभे । कुर्युनभस्युपाकर्म ऋग्यजुःसामगाः क्रमात् ॥” इति । याजुपैः पूर्वाह्न कार्यम्, "भवेदुपाकृतिः पौर्णमास्यां पूर्वाह्न एव तु" इति प्रचेतावचनात् । छन्दोगैस्तु अपराह्न कार्यम्,
"अध्यायानामुपाकर्म कुर्यात् कालेऽपरालिके ।
पूर्वाह्न तु विसर्गः स्यादिति वेदविदा विदुः ॥" इति गोभिलोक्तेः । अत्र स्वस्वशाखोक्तो हामः कार्यः । अत्रsर्षिपूजनतर्पणे पाह कार्णाजिनिः__ "उपाकर्माणि चोत्सर्गे यथाकालं समेत्य तु ।
ऋषीन दर्भमयान् कृत्वा पूजयेत् तर्पयेत् ततः ॥” इति । व्यास:
"विष्टरं सप्तभिर्दभैदिशाङ्गलिदैर्षिकम् । चतुरङ्गलमग्र स्याद्ग्रन्थिमेकाङ्गलिं तथा ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com