________________
२१६
तिथ्यर्क:
प्रदक्षिणममं कृत्वा ऋषीनावाह्य तर्पयेत् ।
ऋषीणामर्चनं सर्व कर्त्तव्यश्च निवीतिना ||" इति ।
कार्ष्णाजिनि:
“वेदारम्भणतः पूर्वं सक्तुप्राशनतः परम् । नवयज्ञोपवीतानि हुत्वा दत्वा च धारयेत् ||" इति । विष्णु:--
" उपाकर्मणि विप्रेभ्यो दद्याद् यज्ञोपवीतकम् । आयुष्मान जायते तेन कर्मणा मानवा भुवि ॥” इति । ब्रह्मचारिणामत्र विशेष: कालादर्शे
"मौलीं यज्ञोपवीतञ्च नवं दण्डं च धारयेत् ।
अजिनं कटिसूत्रञ्च नवं वस्त्रं तथैव च ॥” इति । अत्र विशेषः स्वस्वमुत्रे ज्ञेयः । इदञ्च प्रथमोपाकर्म्मशुक्रास्तादावपि न कार्य्यम् । तदुक्तं संग्रहे
"गुरुभार्गवाय बाल्ये चार्द्धषिकेऽपि वा । तथाऽधिमास संसर्प मलमासादिषु द्विजाः || प्रथम पाकृतिर्न स्यात् कृतकर्म्मविनाशकृत् ।" इति । मुहूर्तचिन्तामरणावपि -
"व्याप्याराम तडागकूपभवनारम्भप्रतिष्ठे व्रतारम्भात्सर्ग वधूमवेशनमहादानानि सामाष्टके । गोदानाग्रयणप्रपाप्रथमको पाकर्म्मवेदवतं
नीलोद्वाहमथातिपन्न शिशुसंस्कारान् सुरस्थापनम् ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com