SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ २१६ तिथ्यर्क: प्रदक्षिणममं कृत्वा ऋषीनावाह्य तर्पयेत् । ऋषीणामर्चनं सर्व कर्त्तव्यश्च निवीतिना ||" इति । कार्ष्णाजिनि: “वेदारम्भणतः पूर्वं सक्तुप्राशनतः परम् । नवयज्ञोपवीतानि हुत्वा दत्वा च धारयेत् ||" इति । विष्णु:-- " उपाकर्मणि विप्रेभ्यो दद्याद् यज्ञोपवीतकम् । आयुष्मान जायते तेन कर्मणा मानवा भुवि ॥” इति । ब्रह्मचारिणामत्र विशेष: कालादर्शे "मौलीं यज्ञोपवीतञ्च नवं दण्डं च धारयेत् । अजिनं कटिसूत्रञ्च नवं वस्त्रं तथैव च ॥” इति । अत्र विशेषः स्वस्वमुत्रे ज्ञेयः । इदञ्च प्रथमोपाकर्म्मशुक्रास्तादावपि न कार्य्यम् । तदुक्तं संग्रहे "गुरुभार्गवाय बाल्ये चार्द्धषिकेऽपि वा । तथाऽधिमास संसर्प मलमासादिषु द्विजाः || प्रथम पाकृतिर्न स्यात् कृतकर्म्मविनाशकृत् ।" इति । मुहूर्तचिन्तामरणावपि - "व्याप्याराम तडागकूपभवनारम्भप्रतिष्ठे व्रतारम्भात्सर्ग वधूमवेशनमहादानानि सामाष्टके । गोदानाग्रयणप्रपाप्रथमको पाकर्म्मवेदवतं नीलोद्वाहमथातिपन्न शिशुसंस्कारान् सुरस्थापनम् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy