________________
२१७
तिथ्यर्कः दीक्षामाजिविवाहमुण्डनमपूर्व देवतीर्थेक्षणं
संन्यासाग्निपरिग्रहौ नृपतिसंदर्शाभिषेको गमम् । चातुर्मास्यसमावृती श्रवणयोधं परीक्षां त्यजेद्
वृद्धत्वास्तशिशुत्व इज्यसितयोय॑नाधिमासे तथा॥” इति । अत्र नदीनां रजोदोषो नास्तीत्याह वसिष्ठः
"उपाकर्मणि चोत्सर्गे व्रतस्त्राने तथैव च । चन्द्रसूर्यग्रहे चैव रजोदेोषो न विद्यते ॥"
अथात्रवोत्सर्जनमुच्यते प्रसङ्गात् । तच्च पौषमासे रोहिण्यां कृष्णाष्टम्यां वा कार्यम् ,
"पौषमासस्य रोहिण्यामष्टकायामथापि वा।
जलान्ते छन्दसां कुर्यादुत्सर्ग विधिवद्धहिः ॥" इति याज्ञवल्क्योक्तः। कालान्तरमाह मनुः
"पुष्ये तु छन्दसां कुर्याद्वहिरुत्सर्जनं द्विजः ।
माघशुक्लस्य वा प्राप्ते पूर्वाह्न प्रथमेऽहनि ॥” इति । अत्र 'पूर्वाह्न प्रथमेऽहनीति पुष्पमाघयोरपि सम्बध्यते' इति स्मृतिचन्द्रिकाकारादयो निबन्धकाराः । विज्ञानेश्वरस्तु 'पूर्वाह्न इत्येव पदं पुष्यान्वयि, न तु प्रथमेऽहनीति याज्ञवल्क्येन कालान्तरीक्तत्वात्' इत्याह । असौ विकल्पो व्यवस्थितः ।
"श्रावण्यां मौष्ठपद्यां वा ह्युपाकृत्य यथाविधि । युक्तश्छन्दांस्यधीयीत मासान विप्रोऽर्द्धपञ्चमान् ॥" इति मनुनैवोक्तत्वात् । एवं चायं विवेकः सम्पन्नः२८
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com