SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ २१८ तिथ्यर्क: यदा हि श्रावण्यामुपाकर्म क्रियते तदा पौषशुक्लप्रतिपदि पूर्वा उत्सर्जनम् । यदा तु प्रोष्ठपद्यां तदा माघशुक्लप्रतिपदि पूर्वाह्न इति । अर्द्धपञ्चमान् अद्धैः पञ्चम्यो येष्विति व्युत्पत्त्या सार्द्धचतुर इत्यर्थः । श्राश्वलायनास्तु माध्यामेव कुर्युः । "अध्यायात्सर्जनं माध्यां पौर्णमास्यां विधीयते ।" इति कारिकोक्तः । उपाकर्म्मदिने वा कार्य्यम्, " पुष्ये तूत्सर्जनं कुर्यादुप | कर्मदिनेऽपि वा । " इति हेमाद्रौ खादिरगृह्येोक्तः । सामगास्तु सिंहस्थे सूर्ये पुष्य नक्षत्रे कुर्युः, 'सिंहे रवौ' इति प्रागुक्तवचनात् । यदा तु सिंहस्थे सूर्ये पूर्वे हस्त एव भवति तत्पूर्वः पुष्यस्तु कन्यास्थे रवौ, तदा तत्रैवेत्सि - र्जनं कृत्वा सिंहार्कहस्ते उपाकर्म कार्य्यम्, "मासे प्रोष्ठपदे हस्तात्पुष्यः पूर्वो भवेद् यदा । तदा तु श्रावणे कुर्य्यादुत्सर्गं छन्दसां द्विजः ॥" इति कात्यायनवचनात् । प्रोष्ठपदश्रावणशब्दौ सौरमासपरौ, सामगानां सौरमासे एवेोपाकर्मोत्सर्जनविधानात् । अत्रापि ऋषीन् पूजयेदित्युक्तं प्रागित्यलं प्रासङ्गिकेन । अस्यामाश्वलायनैः श्रवणाकर्म कार्य्यम्, “श्रावण्यां पौर्णमास्यां श्रवणाकर्म्म" इति सूत्रात् । सर्पवलिरप्यत्रैव कार्यः । इदञ्च कर्म्मद्वय प्रदोषव्यापिन्यां पौर्णमास्यां कार्यम् "अस्तमिते स्थालीपाकं श्रपयित्वा" इति सूत्रात् । "इदं चाभुक्तवैव कार्यम्” इति प्रयोगरत्नेऽस्मन्मातुः प्रपितामहचरणाः । “भुक्त्वा कार्यम्" इत्यपि केचित् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy