________________
२१६
तिथ्यर्कः अस्यामेव रक्षाबन्धनमुक्त हेमाद्रौ भविष्योत्तरे
"सम्माप्ते श्रावणस्यान्ते पौर्णमास्यां दिनोदये । स्नानं कुर्वीत मतिमान् श्रुतिस्मृतिविधानतः ॥ ततोऽपराह्नसमये रक्षापोटलिका शुभाम् । कारयेदक्षतैः शस्तैः सिद्धाहेमभूषितैः ।।
विचित्रतन्तुग्रथितां बध्नीयाद् दक्षिणे करे ।" मन्त्रः
"येन बद्धो बली राजा दानवेन्द्रो महाबलः ।
तेन मन्त्रेण* बनामि रक्षे ! मा चल मा चल ॥ इति । तथा तत्रैव"यः श्रावणे विमलमासि विधानविज्ञो
रक्षाविधानमिदमाचरते मनुष्यः । आस्ते सुखेन परमेण स वर्षमेक
___ पुत्रप्रपौत्रसहितः ससुहृज्जनश्च ॥” इति । अत्र सर्वेषामप्यधिकारस्तत्रैवोक्तः
"ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रश्चान्यैश्च मानवैः । कर्तव्यो रक्षिकाबन्धो द्विजान् सम्पूज्य यत्नतः ।। अनेन विधिना यस्तु रक्षाबन्धनमाचरेत् ।
स सर्वदोषरहितः सुख संवत्सरं वसेत् ॥” इति । इदं च भद्रायां न कार्यम् । तदुक्तं निर्णयामृते संग्रहे
* 'तेन त्वां प्रतिबधामि' इत्यपि पाठः स्मर्यत । वामपीति निर्णयसिन्धौ ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com