________________
२२०
तिथ्यर्कः "भद्रायां द्वे न कर्त्तव्ये श्रावणी फाल्गुनी तथा ।
श्रावणी नृपति हन्ति ग्राम दहति फाल्गुनी ॥” इति । अस्यामेव हयग्रीवयात्रोक्ता कल्पतरौ ब्राह्मे
"श्रावण्यां श्रवणे जातः पूर्व हयशिरा हरिः । जगाद सामवेदं तु सर्वकल्मषनाशनः ।।
स्नात्वा संपूजये तु शङ्खचक्रगदाधरम् ।” इति । अथ भाद्रपौर्णमास्यां नान्दीमुखश्राद्धमुक्तं ब्रह्मपुराणे
"नान्दीमुखानां प्रत्यब्दं कन्याराशिगते रवौ ।
पौर्णमास्यान्तु कर्त्तव्यं वराहवचनं यथा ॥” इति । नान्दीमुखास्त्वश्रुमुखेभ्यः परास्त्रयः। अश्रुमुखादिसंज्ञाप्युक्ता तत्रैव
"पिता पितामहश्चैव तथैव प्रपितामहः । त्रयो ह्यश्रुमुखा ह्येते पितरः सम्प्रकीर्तिताः ।
तेभ्यः परतरे ये तु ते तु नान्दीमुखाः स्मृताः ।" इति । अथाश्विनपौर्णमास्यामश्वयुजीकाग्रयणे कार्ये, “अाश्वयुज्यमाश्वयुजीकर्म" इति सूत्रात् । “शरद्याग्रयणं नाम पर्वणि स्यात्तदु. च्यते" इति शौनकोक्तेः। अत्र प्रयोगादिविस्तरस्त्वस्मन्मातुः प्रपितामहभट्टश्रीनारायणपदपायोजविरचिते प्रयोगरत्ने ज्ञेयः । अस्यामेव कोजागरव्रतमुक्तं लैङ्गे
"आश्विने पौर्णमास्यान्तु चरेज्जागरणं निशि । कौमुदी सा समाख्याता कार्या लोकविभूतये ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com