SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्कः कौमुद्यां पूजयेल्लक्ष्मीमिन्द्रमैरावतास्थितम् । नारिकेलोदकं पीत्वा अक्षः क्रीडां समाचरेत् ॥ निशीथे वरदा लक्ष्मीः को जागर्तीति भाषिणी । तस्मै वित्तं प्रयच्छामि अझैः क्रीडां करोति यः ॥" इयं निशीथव्यापिनी ग्राह्या, तत्रैव जागरायुक्तत्वात् । अत्र जागरणं प्रधानम्, फलसम्बन्धात् । अत्र घृतपात्रदानं कार्यम्, "आश्वयुज्यामश्विनीगते चन्द्रे घृतपूर्णभाजनं सुवर्णयुतं विपाय दत्वा दीप्ताग्निर्भवति" इति निर्णयामृते विष्णुक्तेः । अथ कार्तिक्यां कार्तिकेयदर्शनमुक्त काशीखण्डे "कार्तिक्यां कृतिकायोगे यः कुर्यात् स्वामिदर्शनम् । सप्तजन्म भवेद्विषो धनाढ्यो वेदपारगः ॥" त्रिपुरोत्सवश्चात्रैवोक्तो भविष्ये-- "पार्णमास्यां तु सन्ध्यायां कर्त्तव्यस्त्रिपुरोत्सवः । दद्यादनेन मन्त्रेण सुदीपांश्च सुरालये ।। कीटाः पतङ्गा मशकाश्च वृक्षे जले स्थले ये विचरन्ति जीवाः । दृष्टवा प्रदीपं नहि जन्मभागिन स्ते मुक्तरूपा हि भवन्ति तत्र ॥” इति । अत्र सन्ध्याकालव्यापिनी ग्राहया, कर्मकालत्वात् । अस्यां क्षीरसागरदानमुक्तं निर्णयामृते ब्रह्मपुराणे Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy