________________
२१२
तिथ्यर्कः श्रवणेन तु यत्कर्म ह्युत्तराषाढसंयुतम् ।
संवत्सरकृतोऽध्यायस्तरक्षणादेव नश्यति ॥" गर्गः
"पर्वण्यौदयिक कुर्युः श्रावणं तैत्तिरीयकाः । वढचाः श्रवणे कुर्युग्रहसंक्रान्तिवर्जिते ॥” इति । अत्र तैत्तिरीयपदं यजुर्वेदिमात्रपरम् ।। यदा श्रवणं पर्व वा ग्रहणसंक्रान्तिभ्यामन्वितम् , तदा पञ्चम्यामुपाकर्म कार्यम् । तदुक्तं मदनरत्ने स्मृत्यन्तरे
"उपाकर्म न कुर्वन्ति क्रमात् सामर्यजुर्विदः ।
ग्रहसंक्रान्तियुक्तेषु हस्तश्रवणपर्वसु ॥" तथा--
"यदि स्याच्छावणं पर्व ग्रहसंक्रान्ति दूषितम् ।
स्यादुपाकरणं शुक्लपञ्चम्यां श्रावणस्य तु ॥" इति । अत्र विशेष प्रयोगपारिजाते वृद्धमनुकात्यायनावाहतुः
"यद्यर्द्धरात्रादर्वाक्तु ग्रहः संक्रम एव वा । नोपाकर्म तदा कुर्याच्छावण्यां श्रवणेऽपि वा ॥ अधराबादधस्ताच्चेत् संक्रान्तिर्ग्रहणं तदा ।
उपाकर्म न कुर्वीत परतश्चेन्न दोषकृत् ॥” इति । 'परतश्चेत् परेऽहनि' इत्यपि क्वचित् पाठः। तदा परेऽहन्यपि निषेध इति समयमयूखे गुरवः । यत्तु वचनजातं
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com