SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्कः २११ अथ श्रावणपौर्णमासी पवित्रारोपणादौ पूर्वविद्वैव ग्राहया, 'श्रावणी दुर्गनवमी' इति बृहद्यमोक्तः। अस्यामुपाकर्म कार्यम्, "अध्यायानामुपाकर्म श्रावण्यां श्रवणेन वा । हस्तेनौषधिभावे वा पञ्चम्यां श्रावणस्य तु ॥" इति याज्ञवल्क्योक्तेः। 'अध्यायानाम्' वंदानाम् । “पञ्चम्यां हस्तेन युक्तायामुपाकर्म कार्यम्" इति हेमाद्रिमतम् । अपरे तु"प्राञ्चो हस्तेन युक्तेऽहनि पञ्चम्यां वा" इति व्याचक्षते । स्मृत्यर्थसारे तु "श्रावणमासस्य श्रवणे वा पञ्चम्या हस्ते पञ्चमीहस्तयोगे वा कार्यम्" इत्युक्तम् । ओषधीनां प्रादुर्भावाभावे वहर्चकारिकायाम् "अष्ट्यापधयस्तस्मिन् मासे तु न भवन्ति चेत् । तदा भाद्रपदे मासे श्रवणेन करोति तद् ॥” इति । एवं मूनकादिनाऽप्यन्तरिते भाद्रपदे श्रवणेन कार्यम् । तत्राप्यन्तरिते तु नोकर्षः, “वार्षिकमित्येतदाचक्षते" इति सूत्रे वार्षिकमिति समाख्याबलाद् । वर्षासु क्रियत इति वार्षिकम्, श्रावणभाद्रपदावेव वर्षा ऋतुः। अत्र श्रवणं धनिष्ठायुतं ग्राह्यम् तदाह व्यास: "धनिष्ठासंयुते कुर्याच्छावणं कर्म यद्भवेत् । तत्कर्म सफलं ज्ञेयमुपाकरणसंज्ञितम् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy