________________
तिथ्यर्कः
२११ अथ श्रावणपौर्णमासी पवित्रारोपणादौ पूर्वविद्वैव ग्राहया, 'श्रावणी दुर्गनवमी' इति बृहद्यमोक्तः। अस्यामुपाकर्म कार्यम्,
"अध्यायानामुपाकर्म श्रावण्यां श्रवणेन वा ।
हस्तेनौषधिभावे वा पञ्चम्यां श्रावणस्य तु ॥" इति याज्ञवल्क्योक्तेः। 'अध्यायानाम्' वंदानाम् । “पञ्चम्यां हस्तेन युक्तायामुपाकर्म कार्यम्" इति हेमाद्रिमतम् । अपरे तु"प्राञ्चो हस्तेन युक्तेऽहनि पञ्चम्यां वा" इति व्याचक्षते । स्मृत्यर्थसारे तु
"श्रावणमासस्य श्रवणे वा पञ्चम्या हस्ते पञ्चमीहस्तयोगे वा कार्यम्" इत्युक्तम् । ओषधीनां प्रादुर्भावाभावे वहर्चकारिकायाम्
"अष्ट्यापधयस्तस्मिन् मासे तु न भवन्ति चेत् । तदा भाद्रपदे मासे श्रवणेन करोति तद् ॥” इति ।
एवं मूनकादिनाऽप्यन्तरिते भाद्रपदे श्रवणेन कार्यम् । तत्राप्यन्तरिते तु नोकर्षः, “वार्षिकमित्येतदाचक्षते" इति सूत्रे वार्षिकमिति समाख्याबलाद् । वर्षासु क्रियत इति वार्षिकम्, श्रावणभाद्रपदावेव वर्षा ऋतुः। अत्र श्रवणं धनिष्ठायुतं ग्राह्यम् तदाह व्यास:
"धनिष्ठासंयुते कुर्याच्छावणं कर्म यद्भवेत् । तत्कर्म सफलं ज्ञेयमुपाकरणसंज्ञितम् ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com