SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ २१० तिथ्यर्फ: इति काशीखण्डात् । अस्यां शिवशयनमुक्तं हेमाद्री वामन. पुराणे "पौर्णमास्यामुमानाथः स्वपते चर्मसंस्तरे । वैयाध्ये च जटाभारं समुद्ग्रथ्याऽहिचर्मणा ॥” इति । अत्र विष्णुशयनमप्युक्त कल्पतरौ यमेन--- "क्षीराब्धौ शेषपर्यङ्के आषाढ्या संविशेद्धरिः । निद्रां त्यजति कार्त्तिक्यां तयोः सम्पूजयेद्ध रिम् । ब्रह्महत्यादिकं पापं क्षिप्रमेव व्यपोहति । हिंसात्मकैस्तु किं तस्य यज्ञैः कार्य महात्मनः ॥ प्रस्वापे च प्रबोधे च पूजितो येन केशवः ॥” इति । न चाषाढस्येयमेकादशी आषाढी, कार्तिकस्येयमेकादशी कातिकीति व्युत्पत्त्याऽऽषाढीकार्तिकीपदेन चाषाढकार्तिकथोरेकादशी ग्राह्येति वाच्यम्, "आषाढशुक्लपक्षान्ते भगवान् मधुसूदनः । भोगिभोगे निजां मायां योगनिद्रा समाप्नुयात् ॥" इति विष्णुधर्मोत्तरे पक्षान्तग्रहणात् । न च "आषाढशुक्लैकादश्यां कुर्यात्स्वापमहोत्सवम् इति पूर्वोक्तस्कान्दविरोध इति वाच्यम्, देशभेदेन सम्प्रदायभेदेन च व्यवस्थासम्भवात् । अस्यामन्नादिदानं कार्यम्, "आषाढ्यामाषाढयुतायामन्नपानादिदानेनाक्षय्य. माप्नोति" इति विष्णुक्तेः। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy