________________
तिथ्यर्कः
२०६ अत्र सर्वव्रतेषु कथादिकं विस्तरभिया नोक्तम्, तत् श्रीमातुलकृतव्रताकें द्रष्टव्यम् । अत्र विशेषो निर्णयामृते आदित्यपुराणे
"ज्येष्ठे मासि तिलान् दद्यात्पौर्णमास्यां विशेषतः ।
सोऽश्वमेधस्य यत्पुण्यां तत्प्राप्नोति न संशयः ॥” इति । विष्णुरपि
"ज्येष्ठी ज्येष्ठायुता चेत्स्याच्छनोपानत्मदानेन नरो नराधिपत्यमाप्नोति ॥” इति ।
आषाढी कोकिलावते सन्ध्याकालव्यापिनी ग्राहया, "आषाढपौर्णमास्यां तु सन्ध्याकालेऽप्युपस्थिते । सङ्कल्पयेन्मासमेकं श्रावणे प्रत्यहं ह्यहम् ॥ स्नानं करिष्ये नियता ब्रह्मचर्यस्थिता सती ।
भोक्ष्यामि नक्तं भूशय्यां करिष्ये प्राणिनां दयाम् ॥" इति भविष्यात् । व्यासपूजादौ त्वौदयिकी सार्द्धत्रिमुहूर्ता ग्राहया,
"त्रिमुहूर्ताधिकं ग्राह्य पर्व क्षौरममाणयोः ।" इति विश्वेश्वरपद्धतावुक्तत्वात् । अत्रैव भारभूतेशाऽषाढीशयोः पूजा यात्रा च काय,
"उदीच्यां भारभूतेशमाषाढीशं समर्चयेत् । कृत्वा सांवत्सरी यात्रामनेना जायते नरः ॥" २७
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com