SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्कः २०६ अत्र सर्वव्रतेषु कथादिकं विस्तरभिया नोक्तम्, तत् श्रीमातुलकृतव्रताकें द्रष्टव्यम् । अत्र विशेषो निर्णयामृते आदित्यपुराणे "ज्येष्ठे मासि तिलान् दद्यात्पौर्णमास्यां विशेषतः । सोऽश्वमेधस्य यत्पुण्यां तत्प्राप्नोति न संशयः ॥” इति । विष्णुरपि "ज्येष्ठी ज्येष्ठायुता चेत्स्याच्छनोपानत्मदानेन नरो नराधिपत्यमाप्नोति ॥” इति । आषाढी कोकिलावते सन्ध्याकालव्यापिनी ग्राहया, "आषाढपौर्णमास्यां तु सन्ध्याकालेऽप्युपस्थिते । सङ्कल्पयेन्मासमेकं श्रावणे प्रत्यहं ह्यहम् ॥ स्नानं करिष्ये नियता ब्रह्मचर्यस्थिता सती । भोक्ष्यामि नक्तं भूशय्यां करिष्ये प्राणिनां दयाम् ॥" इति भविष्यात् । व्यासपूजादौ त्वौदयिकी सार्द्धत्रिमुहूर्ता ग्राहया, "त्रिमुहूर्ताधिकं ग्राह्य पर्व क्षौरममाणयोः ।" इति विश्वेश्वरपद्धतावुक्तत्वात् । अत्रैव भारभूतेशाऽषाढीशयोः पूजा यात्रा च काय, "उदीच्यां भारभूतेशमाषाढीशं समर्चयेत् । कृत्वा सांवत्सरी यात्रामनेना जायते नरः ॥" २७ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy