SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ २०८ तिथ्यर्कः हेमाद्रौ भविष्ये "कुम्भान् स्वच्छजलैः पूर्णान् हिरण्येन समन्वितान् । वैशाखे ब्राह्मणे दत्वा न शोचति कृतान्ततः ॥” इति । ज्येष्ठपौर्णमास्यां सावित्रीव्रतमुक्तं भविष्ये "ज्येष्ठे मासि सिते पक्षे पौर्णमास्यां तथा व्रतम् । चीण पुरा महाभक्त्या कथितं ते मया नृप !॥” इति । "प्रतिपत्पश्चमीभूतसावित्रीव्रतपूर्णिमा। नवमी दशमी चैव नोपोष्याः स्युः परान्विताः ॥" इति ब्रह्मवैवर्तात्, "भूतविद्धा सिनीवाली न तु तत्र व्रतं चरेत् । वर्जयित्वा तु सावित्रीव्रतं तु शिखिवाहन !" इति स्कान्दाच्च इयं पूर्व विद्धा ग्राह्या । अत्र विशेषो भविष्ये "सावित्रीप्रतिमां कुर्यात्सौवीं वापि मृण्मयीम् । सार्द्ध सत्यवता साध्वीं फलनैवेद्यदीपकैः ॥ पूजयेदिति शेषः। सावित्र्याख्यानकं चापि वाचयीत द्विजोत्तमः । रात्री जागरणं कृत्वा प्रभाते विमले ततः ।। तामपि ब्राह्मणे दत्वा प्रणिपत्य क्षमापयेत् ।" प्रतिमादाने मन्त्रः "सावित्रीयं मया दत्ता सहिरण्या महासती । ब्रह्मणः प्रीणनार्थाय ब्राह्मण ! प्रतिगृह्यताम् ।।" इति ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy