SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ २०७ तिथ्यर्कः व्रतसम्पूर्ति सिद्ध्यर्थ धेनुमेका पयस्विनीम् । पादुकोपानहच्छत्रं गुरवे व्यजनं तथा ॥ शय्यां स्वोपस्करां दद्याद् दीपिका दर्पणं तथा । ब्राह्मणान् भोजयेत् त्रिंशत् तेभ्यो दद्याच्च दक्षिणाम् ॥ कलशान जलपूर्णांस्तु तेभ्यो दद्याद् यवांस्तथा ।। एवं कृते माधवस्य उद्यापनविधी शुभे। फलमाप्नोति सकलं विष्णुसायुज्यमाप्नुयात् ॥” इति । यदा वैशाखो मलमासस्तदा तस्मिन्नेवारब्धं मलमासात् प्राग यत्काम्यमसमापितम्-'सम्प्राप्ते मलमासेऽपि तत्समाप्यमसंशयम् ।" अस्मात्काण्वगृह्यात्समापनीयमिति हेमाद्रिमदनावाहतुः। अस्यामेव शृतान्नं चादकुम्भं धर्मरानपीतये देयमित्युक्तं जाबालिना "शृतान्नमुद कुम्भञ्च वैशाख्याञ्च विशेषतः । निर्दिश्य धर्मराजाय गोदानफलमाप्नुयात् ॥” इति । 'शृतम्' पक्वम् । अस्यां कृष्णाजिनदानमप्युक्तं निर्णयामृते पुराणसमुच्चये "वैशाख्यां पौर्णमास्यां तु विशाखा तु विशेषतः। यस्तु कृष्णाजिनं दद्यात् सखुरं शृङ्गसंयुतम् ।। तिलैः प्रच्छाद्य वासाभिः सर्ववस्त्रैरलंकृतम् । ससमुद्रगुहा तेन सशैलवनकानना । सप्तद्वीपान्विता दत्ता पृथिवी नात्र संशयः ॥” इति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy