SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ ६६ तिथ्यर्कः प्रतिपदप्यमावास्या तिथ्यायुग्मं महाफलम् । एतद् व्यस्तं महादोषं हन्ति पुण्यं पुराकृतम् ॥” इति । अस्यार्थः-युग्मं द्वितीया, अग्निस्तृतीया, युगं चतुर्थी, भूतं पञ्चमी, षट् षष्ठी, मुनिः सप्तमी, वसुरष्टमी, रन्ध्र नवमी, रुद्र एकादशी। तिथ्यायुग्मम्-द्वितीया तृतीयायुक्ता ग्राह्या, तृतीया द्वितीयायुक्ता, चतुर्थी पञ्चमीयुक्ता, पञ्चमी चतुर्थीयुक्ता, षष्ठी सप्तमीयुक्ता, सप्तमी षष्ठीयुक्ता, अष्टमी नवमीयुक्तेत्यादीनि युग्मानि ज्ञेयानि । एतानि चतुर्दशीपूर्णिमायुग्मसाहचर्यात् प्रतिपदप्यमावास्या साहचर्याच्च शुक्लपक्षयुग्मानि ज्ञातव्यानि । तस्माद् वसुरन्ध्रयोरस्माद्वाक्यांशादियं परैव। यत्तु “षष्ठ्यष्टम्यप्यमावास्या कृष्णपक्षे त्रयोदशी । एताः परयुताः पूज्याः पराः पूर्वेण संयुताः ॥" इति युग्मवचस्तदेतदर्थकमेव । अपरन्तु “प्रतिपत् सद्वितीया स्याद् द्वितीया प्रतिपद्युता ।" इति तत्कृष्णपक्षयुग्मनिर्णायकम् । इयमेवाशोकाष्टमी। अस्यामशोककलिकापाशनं कार्यम् । तदुक्तं लिङ्गपुराणे "अशोककलिका अष्टौ ये पिबन्ति पुनर्वसौ । चैत्रे मासि सिताष्टम्यां न ते शोकमवाप्नुयुः ॥” इति । प्राशनमन्त्रस्तत्रैव "त्वामशाकं शिवाभीष्टं मधुमाससमुद्भवम् । पिबामि शोकसन्तप्तो मामशोकं सदा कुरु ॥" इति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy