________________
तिथ्यकः अथाष्टमी निर्णीयते । सा शुक्ला परा, इतरा पूर्वा । तदुक्तं निगमे
"शुक्लपक्षेऽष्टमी चैव कृष्णपक्षे चतुर्दशी।
पूर्वविद्धैव कर्त्तव्या परविद्धा न कुत्रचित् ।।" इति । उपवासेष्वेवायं नियमो न तु सर्वत्र,
"उपवासेषु राजेन्द्र ! एष धर्मः सनातनः ।" इति तत्रैवोक्तत्वात् । तत्र सर्वाष्टमीषु दुर्गापूजोक्ता काशीखण्डे
"अष्टम्यां च चतुर्दश्यां भौमवारे विशेषतः ।
सम्पूज्या सततं काश्यां दुर्गा दुर्गातिनाशिनी ॥” इति । तथा
"अष्टम्यां च चतुर्दश्यां रविभूमिजवासरे । यात्रां च भैरवीं कृत्वा नरः पापैः प्रमुच्यते ॥” इति ।
चैत्र शुक्लाष्टमी भवान्यष्टमी। अत्र भवानीयात्रोक्ता काशीखण्डे
"चैत्राष्टम्यां महायात्रां भवान्याः कारयेत् सुधीः । अष्टाधिकाः प्रकर्त्तव्याः शतकृत्वः प्रदक्षिणाः ॥ भवानी यस्तु पश्येत शुक्लाष्टम्यां मधौ नरः ।
न जातु शोकं लभते सदानन्दमयो भवेत् ॥” इति । सा परयुता ग्राह्या । तदुक्तं निगमे
"युग्माग्नियुगभूतानां षण्मुन्योर्वसुरन्ध्रयोः । रुद्रेण द्वादशीयुक्ता चतुर्दश्या च पूर्णिमा ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com