SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्कः "हस्तो मैत्रस्तथा पुष्यो मृगशीर्ष पुनर्वसुः । पुन्नामधेयनक्षत्राण्येतान्याहुर्मनीषिणः ॥” इति । अस्यामेव लोलार्कस्नानात्पापमुक्तिरुक्ता काशीखण्डे--- "लोलार्के रथसप्तम्यां स्नात्वा गङ्गासिसङ्गमे । सप्तजन्मकृतैः पापैर्मुक्तो भवति तत्क्षणात् ॥" अथ रविवारयुक्ता या काचिच्छुक्लसप्तमी सा विजयासप्तमीत्युक्तं मदनरत्ने भविष्यपुराणे "शुक्लपक्षस्य सप्तम्यां सूर्यवारो भवेद्यदि । सप्तमी विजया नाम तत्र दत्तं महाफलम् ॥ स्नानं दानं जपो होम उपवासस्तथैव च । सर्व विजयसप्तम्यां महापातकनाशनम् ॥” इति । तत्रैव "करवीराणि रक्तानि कुकुमश्च विलेपनम् । विजयं धूपमस्यां तु भानोस्तुष्टिकराणि वै ॥" एषैव भानुसप्तमी कल्याणसप्तमी च । अस्यां योगविशेषमाह स्मृतिचन्द्रोदये गर्गः “षष्ठी च सप्तमीयोगे वारश्चेदंशुमालिनः । यागोऽयं पद्मको नाम सहस्रार्कग्रहैः समः ॥” इति । सप्तरी बुधवारेण सिद्धा। रविवारेण संवर्तयोगाख्या विरुद्धा। योगिन्यस्यां वायव्याम् । इति सप्तमी निर्णीता । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy