________________
स्नानमन्त्रश्च -
“पृथग्जन्मकतं पापं मया सप्तसु जन्मसु । तन्मे रोगं च शोकं च माकरी हन्तु सप्तमी ||" इति ।
तिथ्यर्क :
स्नानोत्तरमर्घस्तूक्तः सौरागमे --
“अर्कपत्रैः सबदरैर्दूर्वाक्षतसचन्दनैः ।
अष्टाङ्गविधिना चाये दद्यादादित्यतुष्टये ॥"
अर्धदानमन्त्री मदनरत्ने --
"सप्तसप्ते ! भव प्रीतः सप्तलोकमदीपन ! | सप्तमीसहित देव ! गृहाणा दिवाकर |||"
अस्यां रथदानमु भविष्योत्तरे --
"एवंविधं रथवरं रथवाजियुक्तं
हैमं च हैमशतदीधितिना समेतम् । दद्याच्च मासितसप्तमवासरे यः
सोऽसङ्गचक्रगतिरेव महीं भुनक्ति ॥"
निर्णयामृते सप्तमीकरणे-
६५
" रविवारेण युक्तायां सप्तम्यामुत्तरायणे । पुन्नामनि च नक्षत्रे पूजयेच्च दिवाकरम् ||"
उत्तरायणे माघे -- इति तत्रैव व्याख्यातम् । पुन्नामनक्षत्राणि ज्योतिःशास्त्र प्रोक्तानि -
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com