SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ ६४ तिथ्यर्क : प्लुतं पिष्टं भुञ्जीत | दिनद्वये सप्तम्यामष्टम्यां च । इति प्रयोगः । माघशुक्ल सप्तमी रथसप्तमी । सा स्नानादावरुणोदयव्यापिनी ग्राह्या । तदुक्तं विष्णुना " सूर्यग्रहणतुल्या तु शुक्ला माघस्य सप्तमी । अरुणोदयवेलायां तस्यां स्नानं महाफलम् ||" इति । श्रयञ्च स्नानकालो येsरुणोदये माघे स्नान्ति तान्प्रत्येव, अन्यान प्रति तु श्रीसूर्योदयः; माघमासस्य सप्तम्यामुदयत्येव भास्करे । विधिवत्तत्र च स्नानं महापातकनाशनम् ॥ इत्यपरार्के विष्णुक्तः । विधिवद् दीपदानादि कृत्वेत्यर्थः । दीपदानविधिर्हेमाद्रौ भविष्ये— "सौवर्णे राजते ताम्र' भक्त्या लाबूमयेऽथवा । तैलेन वर्त्तिर्दातव्या महारजनरञ्जिता || समाहितमना भूत्वा दत्वा शिरसि दीपकम् । भास्करं हृदये ध्यात्वा इमं मन्त्रमुदीरयेत् ॥ नमस्ते रुद्ररूपाय रसानां पतये नमः । वरुणाय नमस्तेऽस्तु हरिवास ! नमोऽस्तु ते ॥ जले परिहरेद्दीपं ध्यात्वा सन्तर्प्य देवताः ।" इति । परिहरेत् स्थापयेत् । महारजनं कुसुम्भम्, “महारजनमुद्दिष्टं शातकुम्भकुसुम्भयोः ।" इति महेश्वरको षात् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy