________________
६४
तिथ्यर्क :
प्लुतं पिष्टं भुञ्जीत | दिनद्वये सप्तम्यामष्टम्यां च । इति प्रयोगः । माघशुक्ल सप्तमी रथसप्तमी । सा स्नानादावरुणोदयव्यापिनी ग्राह्या । तदुक्तं विष्णुना
" सूर्यग्रहणतुल्या तु शुक्ला माघस्य सप्तमी । अरुणोदयवेलायां तस्यां स्नानं महाफलम् ||" इति ।
श्रयञ्च स्नानकालो येsरुणोदये माघे स्नान्ति तान्प्रत्येव, अन्यान प्रति तु श्रीसूर्योदयः;
माघमासस्य सप्तम्यामुदयत्येव भास्करे ।
विधिवत्तत्र च स्नानं महापातकनाशनम् ॥
इत्यपरार्के विष्णुक्तः । विधिवद् दीपदानादि कृत्वेत्यर्थः । दीपदानविधिर्हेमाद्रौ भविष्ये—
"सौवर्णे राजते ताम्र' भक्त्या लाबूमयेऽथवा । तैलेन वर्त्तिर्दातव्या महारजनरञ्जिता || समाहितमना भूत्वा दत्वा शिरसि दीपकम् । भास्करं हृदये ध्यात्वा इमं मन्त्रमुदीरयेत् ॥ नमस्ते रुद्ररूपाय रसानां पतये नमः । वरुणाय नमस्तेऽस्तु हरिवास ! नमोऽस्तु ते ॥ जले परिहरेद्दीपं ध्यात्वा सन्तर्प्य देवताः ।" इति ।
परिहरेत् स्थापयेत् । महारजनं कुसुम्भम्, “महारजनमुद्दिष्टं शातकुम्भकुसुम्भयोः ।" इति महेश्वरको षात् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com