SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्कः मार्गशीर्ष शुक्लसप्तमी मित्रसप्तमी । तत्र मित्रपूजायुक्त निर्णयामृते ब्रह्मपुराणे सप्तमीप्रकरणे "यद्विष्णोदक्षिणं नेत्रं तदेवाकृतिमत्पुनः । अदितेः कश्यपाज्जज्ञ मित्रो नाम दिवाकरः ।। सप्तम्यां तेन सा ख्याता लोकेऽस्मिन् मित्रसप्तमी । षष्ठयां च लपनं कार्यं ततः स्नात्वा यजेद्रविम् ।। तत्रोपवासः कर्त्तव्यो भक्ष्याण्यथ फलानि च । सप्तम्यां राध' कार्य तस्मै मित्राय भानवे ॥ नानाकुसुमसंभारैर्भक्ष्यः पिष्टमयैः शुभैः । मधुना च प्रभूतेन होमजाप्यसमाधिभिः ॥ ब्राह्मणान् भोजयेत्पश्चादीनानाथांश्च मानवान् । रात्रौ जागरणं कार्य नृत्यगीतपुरःसरम् ।। अष्टम्यां संविभाज्याथ तथा च नटनर्त्तकाः । दिनद्वये च भोक्तव्यं मिष्टमन्नं मधुप्लुतम् ।।" इति । अत्र पूर्व दिने कृतवपनः स्नात्वा, रवि सम्पूज्य, फलादिभक्षणेनोपवास संपाद्य, ततः सप्तम्यां कुसुमैर्नानाभक्ष्यैर्मधुप्लुतपिष्टयुक्तैराराधनं कृत्वा, यथोक्तविधिना यथाशक्ति सूर्यमन्त्रां जपेत् । जपादिविधिस्तु मत्कृताचारादर्श द्रष्टव्यः । जपदशांशेन हामं कृत्वा, ब्राह्मणादीन् सम्भोज्य, रात्री जागरणं कुर्यात् । ततोऽष्टम्यां श्रीसूर्य सम्पूज्य, गायकादीन् सम्भाज्य, स्वयं दिनद्वयेऽपि मधु Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy