________________
तिथ्यर्कः "विल्ववृक्ष ! महाभाग ! सर्वदा शङ्करप्रिय !। गृहीत्वा तव शाखां तु दुर्गापूजां करोम्यहम् ॥
शाखाच्छेदोद्भवं दुःखं न च कार्यं त्वया प्रभो !" इति । ततः फलयुतां वानस्पत्येन मन्त्रेण शाखां छित्वा, गृहमानीय, सम्पूज्य स्थापयेत् । विल्वामन्त्रणप्रकारस्तु आश्विन शुक्लषष्ठयामुक्तः । अत्रैव मूलनक्षत्रे पुस्तकस्थापन कार्यम्
"मूलऋक्षे सुराधीश ! पूजनीया सरस्वती । पूजयेत्प्रत्यहं देवीं यावद्वष्णवमुक्षकम् ।। नाध्यापयेन्न च लिखेन्नाधीयीत कदाचन ।
पुस्तके स्थापिते देव ! विद्याकामो द्विजोत्तमः ॥" इति रुद्रयामलात् । वैष्णवमुक्षकं श्रवणनक्षत्रम् । संग्रहेऽपि
"आश्विनस्य सिते पक्ष मेधाकामः सरस्वतीम् । मलेनावाहयेद्देवीं श्रवणेन विसर्जयेत् ॥” इति ।
मार्गशीर्षादिचतुर्मासेषु कृष्णपक्षे सप्तम्यां पूर्वेयुः श्राद्ध कार्यम्। तदुक्तं कालादर्शे
"मार्गशीर्षे च पौषे च माघे प्रौष्ठे च फाल्गुने ।
कृष्णपक्षेषु पूर्वेधुरान्वष्टक्यं तथाष्टकाः ॥” इति । अष्टकाश्राद्धात्पूर्वेधुरित्यर्थः। अष्टकास्त्वष्टमीनिर्णये वक्ष्यन्ते । अत्राष्टमीश्राद्धानुरोधेन पूर्वेयुः श्राद्धं कार्य नापराह्लादिव्याप्त्या। तत्र निर्णयः । मार्गशीर्षादयश्चामान्ता ग्राह्याः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com