SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्क : " व्रती च पूजयेद्देवीं सप्तम्यादिदिनत्रये । द्वाभ्यां चतुर होभिर्वा ह्रासवृद्धिवशात्तथेः ॥ भवानीतुष्टये पार्थ ! संवत्सरसुखाय च । भूतप्रेतपिशाचानां नाशार्थं चोत्सवाय च ।। " इति । इदं त्रिरात्रानुष्ठानं काम्यम्, फलश्रवणात् । अत्र दारुसदनस्थापितां दुर्गा पूजयेदित्युक्तं निर्णयामृते भविष्ये "सप्तम्यां नव गेहानि दारुजानि नवानि च । एकं वा वित्तभावेन कारयेत्सुसमाहितः || दुर्गागृहं प्रकर्त्तव्यं चतुरस्रं सुशोभनम् । तन्मध्ये वैदिकां कुर्याच्चतुर्हस्तां शुभां समाम् ॥ तस्यां सिंहासनं क्षौमं कम्बलाजिनसंयुतम् । तत्र दुर्गा प्रतिष्ठाप्य सर्वलक्षणसंयुताम् ॥ पूजयेत्मयता देवीं नरो नियममास्थितः ।" इति । ६१ वेदिकायाश्चतुर्हस्तत्वं क्षेत्रफलता ज्ञेयम् । अस्यां षष्ठ्यामामन्त्रितां विल्वशाखामानीय पूजयेदित्युक्तं ज्योतिःशास्त्रे "आश्विनस्य सिते पक्षे सुमुहूर्त्तेन सप्तमी । तस्यां च पत्रिकापूजा कर्त्तव्या नवनायकैः || प्रशस्तां सफलां विल्वशाखामाहृत्य पूजयेत् ।" इति । आनयनप्रकारस्तु विल्ववृक्षं दुर्गा च सम्पूज्य प्रार्थयेत् । तत्र मन्त्र: Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy