SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्कः "वैशाख शुक्लसप्तम्यां जमुना जाह्नवी स्वयम् । क्रोधात्पीता पुनस्त्यक्ता कर्णरन्ध्रात्तु दक्षिणात् ॥ तां तत्र पूजयेद्देवीं गङ्गां गगनमेखलाम् ।" इति । विशेषवचनाभावादियं पूर्वाह्नव्यापिनी ग्राह्या। दिनद्वये तद्व्याप्तावव्याप्ती वा सामान्यनिर्णयात्पूर्वैव । आषाढशुक्लसप्तम्यां सूर्यपूजोक्ता निर्णयामृते ब्रह्मपुराणे"आषाढशुक्लसप्तम्यां विवस्वान्नाम भास्करः । जातः पूर्वासु तस्मात्तं तत्रोपाष्य यजेत्सदा ॥ रथचक्राकृता रम्ये मण्डलं सर्वकामदम् । भक्ष्य ज्यैस्तथा पेयः पुष्पै पैविलेपनैः ॥” इति । आश्विनशुक्लसप्तमी देवीपूजने श्रीसूर्योदययुता ग्राह्या । तदुक्तं प्रतापमार्तण्डे भविष्ये "युगाद्या वर्षद्धिश्च सप्तमी पार्वतीप्रिया । रवेख्दयमीक्षन्ते न तासु तिथियुग्मता ॥” इति । वर्षद्धिर्जन्मतिथिः । दिनद्वये उदयव्याप्तिसत्त्वे सम्पूर्णत्वात्पूर्वा । दिनद्वयेऽपि तादृशकालेऽसत्त्वे षष्ठीयुक्तैव ग्राह्या। अस्यामेव त्रिरात्रारम्भः कार्यः, ___ "त्रिरात्रं वापि कर्त्तव्यं सप्तम्यादि यथाक्रमम् ।" इति धौम्योक्तः। अत्र सावित्रीव्रतवन्नवम्यनुरोधेन त्रिरात्रं कार्यमिति केचित् । युक्तं तु प्रतिपन्नवरात्रारम्भवत् सप्तम्यामेवारम्भणीयमिदम् । तदुक्तं भविष्योत्तरे Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy