SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ तिथ्यः "मार्गशीर्षेऽमले पक्ष षष्ठ्यां वारेऽशुमालिनः । शततारागते चन्द्र लिङ्ग स्याद् दृष्टिगोचरम् ॥” इति । स्यादित्यनेन दृष्टिगोचरं कर्त्तव्यमित्युच्यते । इयमुक्तयोगयुता पूर्व, योगाभावे सनमीयुता ग्राह्याविशेषात् । इयमपि स्कन्दषष्ठी। तदुक्तं निर्णयामृते भविष्योत्तरे "येयं मार्गशिरे मासि षष्ठी भरतसत्तम ! । पुण्या पापहरा धन्या शिवा शान्ता गुहप्रिया । निहत्य तारक षष्ठ्यां गुहस्तारकराजवत् । रराज तेन दयिता कार्तिके तस्य सा तिथिः ।। स्नानदानादिकं कर्म तस्यामक्षय्यमुच्यते ।" इति दिक । षष्ठी शुक्रण भीमेन वा सिद्धा। शनिवारेण विरुद्धा । योगिन्यत्र पश्चिमायाम् । इति पष्ठी निर्णीता । अथ सप्तमी निर्णोयते । सा पूर्वा उक्ता स्कान्दे "पष्ठ्या युता सप्तमी च कर्त्तव्या तात! सर्वदा ।" इति । उपवासेऽपि पूर्वा, एकादशी तथा षष्ठी' इति पूर्वादाहृतवचनात् । चैत्र शुक्लसप्तम्यां श्रीभास्करं दमनकादिभिः सम्पूज्य भोगानामोतीत्युक्त निर्णयामृते देवीपुराणे "भास्करस्य तु सप्तम्यां पूजां दमनकादिभिः । कृत्वा प्राप्नोति भोगादीन् विगतारिर्महातपाः ॥” इति । वैशाखशुक्लसप्तमी गङ्गासप्तमी। अस्यां गङ्गापूजनं कार्यमित्युक्तं ब्राह्म Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy