________________
तिथ्यः "मार्गशीर्षेऽमले पक्ष षष्ठ्यां वारेऽशुमालिनः ।
शततारागते चन्द्र लिङ्ग स्याद् दृष्टिगोचरम् ॥” इति । स्यादित्यनेन दृष्टिगोचरं कर्त्तव्यमित्युच्यते । इयमुक्तयोगयुता पूर्व, योगाभावे सनमीयुता ग्राह्याविशेषात् । इयमपि स्कन्दषष्ठी। तदुक्तं निर्णयामृते भविष्योत्तरे
"येयं मार्गशिरे मासि षष्ठी भरतसत्तम ! । पुण्या पापहरा धन्या शिवा शान्ता गुहप्रिया । निहत्य तारक षष्ठ्यां गुहस्तारकराजवत् । रराज तेन दयिता कार्तिके तस्य सा तिथिः ।।
स्नानदानादिकं कर्म तस्यामक्षय्यमुच्यते ।" इति दिक । षष्ठी शुक्रण भीमेन वा सिद्धा। शनिवारेण विरुद्धा । योगिन्यत्र पश्चिमायाम् । इति पष्ठी निर्णीता ।
अथ सप्तमी निर्णोयते । सा पूर्वा उक्ता स्कान्दे
"पष्ठ्या युता सप्तमी च कर्त्तव्या तात! सर्वदा ।" इति । उपवासेऽपि पूर्वा, एकादशी तथा षष्ठी' इति पूर्वादाहृतवचनात् ।
चैत्र शुक्लसप्तम्यां श्रीभास्करं दमनकादिभिः सम्पूज्य भोगानामोतीत्युक्त निर्णयामृते देवीपुराणे
"भास्करस्य तु सप्तम्यां पूजां दमनकादिभिः । कृत्वा प्राप्नोति भोगादीन् विगतारिर्महातपाः ॥” इति ।
वैशाखशुक्लसप्तमी गङ्गासप्तमी। अस्यां गङ्गापूजनं कार्यमित्युक्तं ब्राह्म
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com